Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1503

1875 Mantra
Devata- विश्वे देवाः Rishi- अग्निस्तापसः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ꣢ग्ने꣣ वि꣡श्वे꣢भिर꣣ग्नि꣢भि꣣र्जो꣢षि꣣ ब्र꣡ह्म꣢ सहस्कृत । ये꣡ दे꣢व꣣त्रा꣢꣫ य आ꣣यु꣢षु꣣ ते꣡भि꣢र्नो महया꣣ गि꣡रः꣢ ॥१५०३

अ꣡ग्ने꣢꣯ । वि꣡श्वे꣢꣯भिः । अ꣣ग्नि꣡भिः꣢ । जो꣡षि꣢꣯ । ब्र꣡ह्म꣢꣯ । स꣣हस्कृत । सहः । कृत । ये । दे꣣वत्रा꣢ । ये । आ꣣यु꣡षु꣢ । ते꣡भिः꣢꣯ । नः꣣ । महय । गि꣡रः꣢꣯ ॥१५०३॥

Mantra without Swara
अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत । ये देवत्रा य आयुषु तेभिर्नो महया गिरः ॥१५०३

अग्ने । विश्वेभिः । अग्निभिः । जोषि । ब्रह्म । सहस्कृत । सहः । कृत । ये । देवत्रा । ये । आयुषु । तेभिः । नः । महय । गिरः ॥१५०३॥

Samveda - Mantra Number : 1503
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सहस्कृत) सहसा ध्यानबलेन कृत आविष्कृत, (अग्ने) विश्ववन्द्य परमात्मन् ! त्वम् (विश्वेभिः) समस्तैः (अग्निभिः) तेजोभिः सह (ब्रह्म) अस्माकं अन्तरात्मानम् (जोषि) जुषस्व। (ये) ये अग्नयः तेजांसि (देवत्रा) देवे प्रकाशकेषु विद्युत्सूर्यादिषु सन्ति (ये) ये चाग्नयः तेजांसि (आयुषु) मनुष्येषु सन्ति (तेभिः) तैः (नः) अस्माकम् (गिरः) वाचः (महय) महिमान्विताः कुरु ॥१॥
Essence
परमात्मना येऽग्नयो रचिताः सन्ति तेभ्यस्तेजस्तत्त्वं गृहीत्वा वयं स्वकीयानि वाङ्मनोबुद्ध्यात्मादीनि तेजोमन्ति कुर्याम ॥१॥
Subject
तत्राद्ये मन्त्रेऽग्निनाम्ना जगदीश्वरं प्रार्थयते।