Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1501

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣हं꣢ प्र꣣त्ने꣢न꣣ ज꣡न्म꣢ना꣣ गि꣡रः꣢ शुम्भामि कण्व꣣व꣢त् । ये꣢꣫नेन्द्रः꣣ शु꣢ष्म꣣मि꣢द्द꣣धे꣢ ॥१५०१॥

अ꣣ह꣢म् । प्र꣣त्ने꣡न꣢ । ज꣡न्म꣢꣯ना । गि꣡रः꣢꣯ । शु꣣म्भाभि । कण्वव꣢त् । ये꣡न꣢꣯ । इ꣡न्द्रः꣢꣯ । शु꣡ष्म꣢꣯म् । इत् । द꣣धे꣢ ॥१५०१॥

Mantra without Swara
अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् । येनेन्द्रः शुष्ममिद्दधे ॥

अहम् । प्रत्नेन । जन्मना । गिरः । शुम्भाभि । कण्ववत् । येन । इन्द्रः । शुष्मम् । इत् । दधे ॥१५०१॥

Samveda - Mantra Number : 1501
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अहम्) महत्त्वाकाङ्क्षी जनः (प्रत्नेन जन्मना) आचार्यसकाशात् प्राप्तेन श्रेष्ठेन जनुषा (कण्ववत्) मेधावी विद्वानिव (गिरः) स्वकीया वाचः (शुम्भामि२) सत्यभाषणेन अलङ्करोमि। [शुम्भ शोभार्थे, तुदादिः।] (येन) यस्मात् (इन्द्रः) मदीयो जीवात्मा (शुष्मम् इत्) बलमेव (दधे) धारयति ॥२॥
Essence
आचार्यस्य सावित्र्याश्च सकाशाद् द्वितीयं जन्म गृहीत्वा द्विजः सन् यो मनसा वाचा कर्मण च सत्यमेवानुतिष्ठति स पवित्रात्मा सबलात्मा च सर्वैः सत्क्रियते ॥२॥
Subject
अथ पुनः स एव विषयो वर्ण्यते।