Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1500

1875 Mantra
Devata- इन्द्रः Rishi- वत्सः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣ह꣢꣫मिद्धि पि꣣तु꣡ष्परि꣢꣯ मे꣣धा꣢मृ꣣त꣡स्य꣢ ज꣣ग्र꣡ह꣢ । अ꣣ह꣡ꣳ सूर्य꣢꣯ इवाजनि ॥१५००॥

अ꣣ह꣢म् । इत् । हि । पि꣣तुः꣢ । प꣡रि꣢꣯ । मे꣣धा꣢म् । ऋ꣣त꣡स्य꣢ । ज꣣ग्र꣡ह꣢ । अ꣣ह꣢म् । सू꣡र्यः꣢꣯ । इ꣣व । अजनि ॥१५००॥

Mantra without Swara
अहमिद्धि पितुष्परि मेधामृतस्य जग्रह । अहꣳ सूर्य इवाजनि ॥

अहम् । इत् । हि । पितुः । परि । मेधाम् । ऋतस्य । जग्रह । अहम् । सूर्यः । इव । अजनि ॥१५००॥

Samveda - Mantra Number : 1500
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अहम्) जनः (इत् हि) निश्चयेन (पितुः परि) पालकात् पितुः, आचार्यात् परमेश्वराच्च (ऋतस्य) सत्यज्ञानस्य सत्याचरणस्य च (मेधाम्) बुद्धिम् (जग्रह) गृहीतवानस्मि। (अहम्) प्राप्तसत्यज्ञानाचरणो जनः (सूर्यः इव) आदित्य इव सर्वोन्नतः प्रकाशवान् प्रकाशकश्च (अजनि) जातोऽस्मि ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
ये मातापित्रोराचार्यस्य च सकाशात् परमेश्वरप्रेरणया च सर्वा विद्याः सदाचारं च शिक्षित्वा तान् यथायोग्यं सत्कुर्वन्ति पूजयन्ति च अन्यांश्च विद्याः सदाचारं च शिक्षयन्ति ते प्रशंसिता भवन्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १५२ क्रमाङ्के व्याख्याता। अत्र मानवः स्वोपलब्धिं वर्णयति।