Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 150

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
उ꣡प꣢ नो꣣ ह꣡रि꣢भिः सु꣣तं꣢ या꣣हि꣡ म꣢दानां पते । उ꣡प꣢ नो꣣ ह꣡रि꣢भिः सु꣣त꣢म् ॥१५०॥

उ꣡प꣢꣯ । नः꣣ । ह꣡रि꣢꣯भिः । सु꣣त꣢म् । या꣣हि꣢ । म꣣दानाम् । पते । उ꣡प꣢꣯ । नः꣣ । ह꣡रि꣢꣯भिः । सु꣣त꣢म् ॥१५०॥

Mantra without Swara
उप नो हरिभिः सुतं याहि मदानां पते । उप नो हरिभिः सुतम् ॥

उप । नः । हरिभिः । सुतम् । याहि । मदानाम् । पते । उप । नः । हरिभिः । सुतम् ॥१५०॥

Samveda - Mantra Number : 150
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (मदानां पते) आनन्दानाम् अधीश्वर इन्द्र परमात्मन् ! त्वम् (नः) अस्माकम् (हरिभिः) ज्ञानाहरणशीलैः ज्ञानेन्द्रियैः (सुतम्) अभिषुतम् उत्पादितं ज्ञानम् (उप याहि) उपगच्छ। (नः) अस्माकम् (हरिभिः) कर्माहरणशीलैः कर्मेन्द्रियैः सुतम् अभिषुतं कृतं कर्म उप (याहि) उपगच्छ ॥ अथ द्वितीयः—आचार्यपरः। हे (मदानां पते) माद्यन्ति हर्षन्ति एभिरिति मदाः ज्ञानानि तेषाम् अधिपते विविधविद्याविशारद इन्द्राख्य आचार्य ! त्वम् (हरिभिः) ज्ञानाहरणशीलैः इतरैः गुरुजनैः सह (नः) अस्माकं (सुतम्) गुरुकुले कृतप्रवेशं पुत्रम् (उप याहि) उपगच्छ। (हरिभिः) दोषहरणशीलैः इतरैः गुरुजनैः सह (नः) अस्माकम् (सुतम्) गुरुकुले कृतप्रवेशं पुत्रम् (उपयाहि) उपगच्छ, प्राप्नुहि ॥६॥ अत्र श्लेषालङ्कारः उप नः हरिभिः सुतम् इत्यस्यावृत्तौ च पादावृत्ति यमकम् ॥६॥
Essence
उपासका जनाः परमेश्वरं प्रार्थयन्ते यत् अस्माकं प्रतिज्ञानं प्रतिकर्म च त्वं चेद् व्याप्नोषि तदैवास्माकं जीवनयज्ञः सफलः। स्वपुत्रं गुरुकुलं प्रवेश्य मातापितरश्च कुलपतिं प्रार्थयन्ते यत् त्वं विद्याध्ययनाय चरित्रनिर्माणाय चान्यैर्गुरुजनैः सह प्रतिदिनमस्माकं पुत्रेण कृपया सन्निधिं कुरु ॥६॥
Subject
उपासकाः परमात्मानं, बालकस्य मातापितरश्चाचार्यं ब्रुवन्ति।
Footnote
१. ऋ० ८।९३।३१, ऋषिः सुकक्षः। साम० १७९०।