Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 15

1875 Mantra
Devata- अग्निः Rishi- शुनः शेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
ज꣡रा꣢बोध꣣ त꣡द्वि꣢विड्ढि वि꣣शे꣡वि꣢शे य꣣ज्ञि꣡या꣢य । स्तो꣡म꣢ꣳ रु꣣द्रा꣡य꣢ दृशी꣣क꣢म् ॥१५

ज꣡रा꣢꣯बोध । ज꣡रा꣢꣯ । बो꣣ध । त꣢त् । वि꣣विड्ढि । विशे꣡वि꣢शे । वि꣣शे꣢ । वि꣣शे । यज्ञि꣡या꣢य । स्तो꣡म꣢꣯म् । रु꣣द्रा꣡य꣢ । दृ꣣शीक꣢म् ॥१५॥

Mantra without Swara
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय । स्तोमꣳ रुद्राय दृशीकम् ॥१५

जराबोध । जरा । बोध । तत् । विविड्ढि । विशेविशे । विशे । विशे । यज्ञियाय । स्तोमम् । रुद्राय । दृशीकम् ॥१५॥

Samveda - Mantra Number : 15
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
वयम् उपासकाः (विशेविशे) सर्वेषां मनुष्याणां (हितार्थम्)। विश इति मनुष्यनाम। निघं० २।२। (यज्ञियाय) यज्ञं पूजामर्हतीति यज्ञियस्तस्मै। अत्र यज्ञर्त्विग्भ्यां घखञौ अ० ५।१।७१ तत्कर्मार्हतीत्युपसंख्यानम् वा० अनेन यज्ञशब्दाद् घः प्रत्ययः। (रुद्राय) रुतः सत्योपदेशान् राति ददाति१ यस्तस्मै, यद्वा यो रुद् अविद्याहंकारदुःखादिकं द्रावयति२ तस्मै, यद्वा यो रोदयति३ कामक्रोधादीन् रिपून् तस्मै तुभ्यं परमात्माग्नये। अग्निरपि रुद्र उच्यते इति निरुक्तम् १०।७। अग्निर्वे रुद्रः। श० ५।३।१।१०। (दृशीकम्) दर्शनीयम्। अत्र दृशिर् प्रेक्षणे धातोः अनिहृषिभ्यां किच्च। उ० ४।१८ इति बाहुलकाद् औणादिक ईकन् प्रत्ययः किच्च। (स्तोमम्) स्तोत्रम् उपहराम इति शेषः। हे (जराबोध) जरां स्तुतिं बुध्यते तारतम्यतया जानाति यः, यद्वा जरया स्तुत्या बोधो हृदये जागरणं यस्य स जराबोधः, तादृश हे परमात्मन् ! पादादौ आमन्त्रितत्वाद् आमन्त्रितस्य च। अ० ६।१।१९८ इत्याद्युदात्तत्वम्। त्वम् (तत्) अस्माकं स्तुतिकरणम् (विविड्ढि) वेवेड्ढि व्याप्नुहि, स्वीकुरु। अत्र विष्लृ व्याप्तौ धातोः लोण्मध्यमैकवचने णिजां त्रयाणां गुणः श्लौ। अ० ७।४।७५ इति प्राप्तस्य गुणस्य वा छन्दसि सर्वे विधयो भवन्ति इति नियमाद् गुणाभावः।४ अथवा एवं योज्यम्। उपासकः स्वात्मानमाह। हे (जराबोध४) स्तुतिविज्ञ मदीय अन्तरात्मन् ! जरां स्तुतिप्रकारं बुध्यते जानानीति जराबोधः, तत्संबुद्धौ। त्वम् (विशे विशे) सर्वासां प्रजानां मनोबुद्ध्यादीनां हितार्थम् (यज्ञियाय) पूजार्हाय (रुद्राय) सत्योपदेशप्रदाय, दुःखादिद्रावकाय, शत्रुरोदकाय च परमात्माग्नये (तत्) तं प्रभावकरम् (दृशीकम्) दर्शनीयम् (स्तोमम्) स्तोत्रम् (विविड्ढि५) कुरु, उक्तगुणं परमात्मानं स्तुहीत्यर्थः ॥५॥६ यास्कमुनिरिमं मन्त्रमेवं व्याचष्टे—जरा स्तुतिर्जरतेः स्तुतिकर्मणस्तां बोध, तया बोधयितरिति वा, तद् विविड्ढि तत् कुरु, मनुष्यस्य यजनाय, स्तोमं रुद्राय दर्शनीयम् इति। निरु० १०।८।
Essence
हे जगदीश्वर ! त्वं सर्वेषां पूजार्होऽसि। त्वमेव रुद्रो भूत्वास्माकं हृदये सद्गुणान् प्रेरयसि, अविवेकालस्यादीन् निरस्यसि, अन्तःकरणे बद्धमूलान् कामादीन् शत्रून् रोदयसि। अतो वयं त्वां हृदि बोधयितुं त्वत्कृते भूरिशः स्तोमानुपहरामः। अस्मत्कृतानां स्तोमानां हार्दिकत्वं, दर्शनीयत्वं, चारुत्वं च विज्ञाय त्वं तान् कृपया स्वीकुरु। हे मदीय अन्तरात्मन् ! त्वं परमात्मस्तुत्या कदापि विमुखो मा भूः ॥५॥
Subject
अथ परमात्मानं प्रति स्तोत्रमुपहरति।
Footnote
१. (रुद्र) रुतः सत्योपदेशान् राति ददाति तत्सम्बुद्धौ—इति ऋ० १।११४।३ भाष्ये द०। २. (रुद्रम्) यो रुद् रोगं द्रावयति तम्—इति ऋ० ६।४९।१० भाष्ये द०। ३. रोदयत्यन्यायकारिणो जनान् स रुद्रः—इति य० ३।१६ भाष्ये द०। ४. जरास्तुतिः। तां यः स्वयं बुध्यति बोधयति वा देवान् स जराबोधः।.... जराबोध इत्यपि अन्तरात्मनः सम्बोधनम्। प्रैषश्च, हे मदीय अन्तरात्मन्—इति वि०। जरया स्तुत्या बोधयति देवानिति जराबोधः स्तोता। जरतिः स्तुतिकर्मा। हे स्तोतः, आत्मन एव ऋषेरामन्त्रणम्—इति भ०। हे जराबोध जरया स्तुत्या बोध्यमान अग्ने—इति सा०। ५. विविड्ढि वेत्थ जानासि....। अथवा, विविड्ढीति विष्लृ व्याप्तावित्येतस्य रूपम्। अयं च धातुः वेष इति कर्मनामसु पाठात् (निघं० २।१), नाम्नां चाख्यातजत्वात्, कर्मणि च करोत्यर्थस्य सम्भवात् करोत्यर्थोऽपि, न व्याप्त्यर्थ एवेति गम्यते। तत्कुरु इत्यर्थः—इति वि०। यत् बुद्धिस्थं स्तुतिरूपं तद् विविड्ढि, विष्लेर्व्याप्तिकर्मणः लोटि मध्यमपुरुषैकवचनम्, व्याप्नुहि कुरु इत्यर्थः—इति भ०। तद् देवयजनं विविड्ढि प्रविश—इति सा०। ६. दयानन्दर्षिणा ऋग्वेदे मन्त्रोऽयं सेनाधिपतिपक्षे व्याख्यातः—‘(जराबोध) जरया गुणस्तुत्या बोधो यस्य सैन्यनायकस्य तत्संबुद्धौ। (यज्ञियाय) यज्ञकर्मार्हतीति यज्ञियो योद्धा तस्मै इत्यादि।