Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1498

1875 Mantra
Devata- अग्निः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वि꣣भक्ता꣡सि꣢ चित्रभानो꣣ सि꣡न्धो꣢रू꣣र्मा꣡ उ꣢पा꣣क꣢ आ । स꣣द्यो꣢ दा꣣शु꣡षे꣢ क्षरसि ॥१४९८॥

वि꣣भक्ता꣢ । वि꣣ । भक्ता꣢ । अ꣡सि । चित्रभानो । चित्र । भानो । सि꣡न्धोः꣢꣯ । ऊ꣣र्मौ꣢ । उ꣣पाके꣢ । आ । स꣣द्यः꣢ । स꣣ । द्यः꣢ । दा꣣शु꣡षे꣢ । क्ष꣣रसि ॥१४९८॥

Mantra without Swara
विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ । सद्यो दाशुषे क्षरसि ॥

विभक्ता । वि । भक्ता । असि । चित्रभानो । चित्र । भानो । सिन्धोः । ऊर्मौ । उपाके । आ । सद्यः । स । द्यः । दाशुषे । क्षरसि ॥१४९८॥

Samveda - Mantra Number : 1498
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे (चित्रभानो) अद्भुततेजस्क अग्ने परमात्मन् ! त्वम् (विभक्ता) असि स्वकीयस्य तेजसः अन्येषु सूर्यादिपदार्थेषु विभाजयिता असि। त्वम् (सिन्धोः) समुद्रस्य नद्याः वा (ऊर्मौ) तरङ्गे विद्यसे। (उपाके) सर्वेषां समीपे (आ) आगतोऽसि। [उपाके इति अन्तिकनाम। निघं० २।१६।] त्वम् (दाशुषे) आत्मसमर्पकाय उपासकाय (सद्यः) शीघ्रमेव (क्षरसि) आनन्दं स्रावयसि ॥ द्वितीयः—आचार्यपरः। हे (चित्रभानो२) अद्भुतविद्याप्रकाशमय विद्वन् आचार्य ! त्वम् (विभक्ता असि) विद्यायाः अन्येषु विभाजयिता विद्यसे। (सिन्धोः ऊर्मौ उपाके) नद्याः ऊर्मिमयस्य प्रवाहस्य निकटे (आ) गुरुकुलाश्रमं संस्थाप्य आतिष्ठसि। तत्र च (सद्यः) शीघ्रम् (दाशुषे२) आत्मसमर्पकाय शिष्याय (क्षरसि) विद्यां वर्षसि ॥२॥४ अत्र श्लेषालङ्कारः ॥२॥
Essence
यथा जगदीश्वरः सर्वं वस्तुजातं स्वप्रजासु विभजति तथैव गुरवः सर्वा विद्याः शिष्येषु विभजेरन् ॥२॥
Subject
अथ पुनर्जगदीश्वरमाचार्यं च प्राह।