Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1497

1875 Mantra
Devata- अग्निः Rishi- शुनःशेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣣म꣢मू꣣ षु꣢꣫ त्वम꣣स्मा꣡क꣢ꣳ स꣣निं꣡ गा꣢य꣣त्रं꣡ नव्या꣢꣯ꣳसम् । अ꣡ग्ने꣢ दे꣣वे꣢षु꣣ प्र꣡ वो꣢चः ॥१४९७॥

इ꣣म꣢म् । ऊ꣣ । सु꣢ । त्वम् । अ꣣स्मा꣡क꣢म् । स꣣नि꣢म् । गा꣣यत्र꣢म् । न꣡व्यां꣢꣯सम् । अ꣡ग्ने꣢꣯ । दे꣣वे꣡षु꣢ । प्र । वो꣣चः ॥१४९७॥

Mantra without Swara
इममू षु त्वमस्माकꣳ सनिं गायत्रं नव्याꣳसम् । अग्ने देवेषु प्र वोचः ॥

इमम् । ऊ । सु । त्वम् । अस्माकम् । सनिम् । गायत्रम् । नव्यांसम् । अग्ने । देवेषु । प्र । वोचः ॥१४९७॥

Samveda - Mantra Number : 1497
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) विद्वन् जगदीश्वर आचार्य वा ! (त्वम् उ) त्वं खलु (इमम्) एतम् (अस्माकं सनिम्) अस्मभ्यं बहुबोधप्रदम् (नव्यांसम्) नित्यनवीनतरम् (गायत्रम्) गायत्र्यादि-छन्दस्कं वेदज्ञानं गायत्रं साम वा (देवेषु) दिव्यगुणेषु सत्पात्रेषु (सु प्रवोचः) सम्यग् उपदिशसि ॥१॥२
Essence
यथा सृष्ट्यादौ जगदीश्वरोऽग्निवाय्वादित्याङ्गिरसामृषीणां हृदये वेदचतुष्टयीं प्रेरयति तथैव गुरव इदानींतनान् सत्पात्रभूतान् शिष्यान् वेदज्ञानमुपदिशेयुः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २८ क्रमाङ्के परमेश्वरं सम्बोधिता। अत्र जगदीश्वर आचार्यश्च सम्बोध्यते।