Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1495

1875 Mantra
Devata- पवमानः सोमः Rishi- त्र्यरुणस्त्रैवृष्णः, त्रसदस्युः पौरुकुत्सः Chhand- ऊर्ध्वा बृहती Swara- मध्यमः
Mantra with Swara
आ꣢दीं꣣ के꣢ चि꣣त्प꣡श्य꣢मानास꣣ आ꣡प्यं꣢ वसु꣣रु꣡चो꣢ दि꣣व्या꣢ अ꣣꣬भ्य꣢꣯नूषत । दि꣣वो꣡ न वार꣢꣯ꣳ सवि꣣ता꣡ व्यू꣢र्णुते ॥१४९५॥

आ꣢त् । ई꣣म् । के꣢ । चि꣢त् । प꣡श्य꣢꣯मानासः । आ꣡प्य꣢꣯म् । व꣣सुरु꣡चः꣢ । व꣣सु । रु꣡चः꣢꣯ । दि꣣व्याः꣢ । अ꣣भि꣢ । अ꣣नूषत । दिवः꣢ । न । वा꣡र꣢꣯म् । स꣣विता꣢ । वि । ऊ꣣र्णुते ॥१४९५॥

Mantra without Swara
आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत । दिवो न वारꣳ सविता व्यूर्णुते ॥

आत् । ईम् । के । चित् । पश्यमानासः । आप्यम् । वसुरुचः । वसु । रुचः । दिव्याः । अभि । अनूषत । दिवः । न । वारम् । सविता । वि । ऊर्णुते ॥१४९५॥

Samveda - Mantra Number : 1495
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(आत्) तदनन्तरम्, यदा परब्रह्मणः सकाशात् प्रस्रवन् ब्रह्मानन्दरसो जीवात्मानं प्राप्नोति तदेत्यर्थः। अस्य (आप्यम्) स्वात्मना सह बन्धुत्वम् (पश्यमानासः) वीक्षमाणाः, (वसुरुचः) वसुवत् अग्निविद्युदादित्यवद् रुक् कान्तिर्येषां ते, तेजस्विनः (केचित्) केचन (दिव्याः) दिवि द्योतमाने परब्रह्मणि साधवः परब्रह्मसाक्षात्कारनिपुणा उपासकाः इत्यर्थः (ईम्) एनं ब्रह्मानन्दरसम् (अभ्यनूषत) अभिस्तुवन्ति। (सविता) सूर्यः (दिवः न वारम्) आकाशस्य बालं शिशुं चन्द्रमसं यथा स्वप्रकाशेन (व्यूर्णुते) आच्छादयति, तथैव (सविता) रसाभिषोता सोमः परमेश्वरः तान् उपासकान् (व्यूर्णुते) आनन्दरसेन आच्छादयति। [वारं बालम् वबयो रलयोश्चाभेदत्वात्] ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
यथा सूर्यप्रकाशेन चन्द्रः स्नाति, तथैव परमात्मन आनन्दरसेन जीवः ॥२॥
Subject
अथ पुनस्तमेव विषयमाह।