Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1493

1875 Mantra
Devata- इन्द्रः Rishi- नृमेधपुरुमेधावाङ्गिरसौ Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
त्वं꣢ दा꣣ता꣡ प्र꣢थ꣣मो꣡ राध꣢꣯साम꣣स्य꣡सि꣢ स꣣त्य꣡ ई꣢शान꣣कृ꣢त् । तु꣣विद्युम्न꣢स्य꣣ यु꣡ज्या वृ꣢꣯णीमहे पु꣣त्र꣢स्य꣣ श꣡व꣢सो म꣣हः꣢ ॥१४९३॥

त्व꣢म् । दा꣣ता꣢ । प्र꣣थमः꣢ । रा꣡ध꣢꣯साम् । अ꣣सि । अ꣡सि꣢꣯ । स꣣त्यः꣢ । ई꣣शानकृ꣢त् । ई꣣शान । कृ꣣त् । तु꣣विद्युम्न꣡स्य꣢ । तु꣣वि । द्यु꣡म्नस्य꣢ । यु꣡ज्या꣢꣯ । आ । वृ꣣णीमहे । पुत्र꣡स्य꣢ । पु꣣त् । त्र꣡स्य꣢꣯ । श꣡व꣢꣯सः । म꣣हः꣢ ॥१४९३॥

Mantra without Swara
त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् । तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥

त्वम् । दाता । प्रथमः । राधसाम् । असि । असि । सत्यः । ईशानकृत् । ईशान । कृत् । तुविद्युम्नस्य । तुवि । द्युम्नस्य । युज्या । आ । वृणीमहे । पुत्रस्य । पुत् । त्रस्य । शवसः । महः ॥१४९३॥

Samveda - Mantra Number : 1493
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमैश्वर्यवन् जगदीश्वर राजन् वा ! (त्वम् राधसाम्) ऐश्वर्याणाम् (प्रथमः) श्रेष्ठः (दाता) प्रदाता, (सत्यः) सत्यप्रियः, (ईशानकृत्) दुर्गतानपि ईशानान् अधीश्वरान् करोतीति तथाविधः (असि) वर्तसे। (तुविद्युम्नस्य) बहुधनस्य बहुकीर्तेर्वा, (शवसः पुत्रस्य) बलस्य सूनोः, अतिशयेन बलवतः इत्यर्थः, (महः) महतः तव (युज्या) युज्यं सख्यम्। [अत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इत्यनेन द्वितीयैकवचनस्य आकारादेशः।] (आ वृणीमहे) सम्भजामहे ॥२॥
Essence
परमदातुरतिशयशक्तिशालिनः परमात्मनो नृपतेश्च सख्यं वृत्वा निर्धना अपि धनवन्तोऽकिञ्चित्करा अपि बहुकर्मक्षमाः सेवका अपि स्वामिनो निन्दिता अपि यशस्विनो जायन्ते ॥२॥
Subject
अथ पुनः परमात्मा नृपतिश्च वर्ण्यते।