Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1492

1875 Mantra
Devata- इन्द्रः Rishi- नृमेधपुरुमेधावाङ्गिरसौ Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
आ꣢ नो꣣ वि꣡श्वा꣢सु꣣ ह꣢व्य꣣मि꣡न्द्र꣢ꣳ स꣣म꣡त्सु꣢ भूषत । उ꣢प꣣ ब्र꣡ह्मा꣢णि꣣ स꣡व꣢नानि वृत्रहन्परम꣣ज्या꣡ ऋ꣢चीषम ॥१४९२॥

आ꣢ । नः꣣ । वि꣡श्वा꣢꣯सु । ह꣡व्य꣢꣯म् । इ꣡न्द्र꣢꣯म् । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । भू꣣षत । उ꣡प꣢꣯ । ब्र꣡ह्मा꣢꣯णि । स꣡व꣢꣯नानि । वृ꣣त्रहन् । वृत्र । हन् । परमज्याः꣢ । प꣣रम । ज्याः꣢ । ऋ꣣चीषम ॥१४९२॥

Mantra without Swara
आ नो विश्वासु हव्यमिन्द्रꣳ समत्सु भूषत । उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥

आ । नः । विश्वासु । हव्यम् । इन्द्रम् । समत्सु । स । मत्सु । भूषत । उप । ब्रह्माणि । सवनानि । वृत्रहन् । वृत्र । हन् । परमज्याः । परम । ज्याः । ऋचीषम ॥१४९२॥

Samveda - Mantra Number : 1492
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे राष्ट्रवासिनो जनाः ! यूयम् (विश्वासु समत्सु) सर्वेषु देवासुरसंग्रामेषु (नः) प्रजाजनानाम् अस्माकम् (हव्यम्) आह्वातुं योग्यम् (इन्द्रम्) परमात्मानं नृपतिं वा (आभूषत) स्वागतगानैः अलङ्कुरुत। हे (वृत्रहन्) विघ्नविदारक पापदलविध्वंसक (ऋचीषम२) स्तोतॄणां मानप्रद परमात्मन् राजन् वा ! [ऋचन्ति स्तुवन्तीति ऋचीषाः तान् मानयतीति ऋचीषमः। ऋच् स्तुतौ, बाहुलकादौणादिक ईषन् प्रत्ययः।] (परमज्याः) परमान् प्रबलान् आन्तरान् बाह्यांश्च शत्रून् जिनाति हिनस्तीति तथाविधः त्वम् अस्माकम् (ब्रह्माणि) ब्रह्मयज्ञान् (सवनानि) सोमयागस्य प्रातर्माध्यन्दिनसायंसवनानि च (उप) उपागच्छ ॥१॥
Essence
यथा जगदीश्वरो नास्तिकान् पापान् दण्डयित्वा धर्मात्मभिरास्तिकैश्च सख्यं विधाय धार्मिकतां पुष्णाति तथैव नृपतिरपि कुर्यात् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २६९ क्रमाङ्के परमेश्वरविषये व्याख्याता। अत्र विघ्ननिवारणाय परमात्मा नृपतिश्च प्रार्थ्यते।