Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1490

1875 Mantra
Devata- इन्द्रः Rishi- प्रियमेध आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡ ह꣢꣯रयः ससृज्रि꣣रे꣡ऽरु꣢षी꣣र꣡धि꣢ ब꣣र्हि꣡षि꣢ । य꣢त्रा꣣भि꣢ सं꣣न꣡वा꣢महे ॥१४९०॥

आ꣢ । ह꣡र꣢꣯यः । स꣣सृज्रिरे । अ꣡रु꣢꣯षीः । अ꣡धि꣢꣯ । ब꣣र्हि꣡षि꣢ । य꣡त्र꣢꣯ । अ꣣भि꣢ । सं꣣न꣡वा꣢महे । स꣣म् । न꣡वा꣢꣯महे ॥१४९०॥

Mantra without Swara
आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि । यत्राभि संनवामहे ॥

आ । हरयः । ससृज्रिरे । अरुषीः । अधि । बर्हिषि । यत्र । अभि । संनवामहे । सम् । नवामहे ॥१४९०॥

Samveda - Mantra Number : 1490
(Kauthum) उत्तरार्चिकः: » Prapathak » 7; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 14; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(बर्हिषि अधि) यज्ञरूपेऽस्मिन् देहे (अरुषीः) अरुषयः यज्ञस्य अहिंसकाः। [रुषिः हिंसकः, रुष हिंसार्थः। अरुषिः अहिंसकः। अरुषयः इति प्राप्ते पूर्वसवर्णदीर्घः।] (हरयः) मनःप्राणसहिता ज्ञानेन्द्रियकर्मेन्द्रियरूपाः अश्वाः (आ ससृज्रिरे) आसक्ताः सन्ति। [ससृजिरे इति प्राप्ते ‘बहुलं छन्दसि’ अ० ७।१।८ इति रुडागमः।] (यत्र) यस्मिन् देहयज्ञे स्थितम् (इन्द्रं) जीवात्मानम्, वयम् (अभि संनवामहे) अभिसंस्तुमः, उद्बोधयामः ॥२॥
Essence
देहं यज्ञस्थलं तत्र स्थितानीन्द्रियाणि ऋत्विजः, जीवात्मानं च यजमानं मत्वा ये पवित्रं जीवनं यापयन्ति ते सफला जायन्ते ॥२॥
Subject
अथ जीवात्मनोऽधिष्ठानं देहमुपवर्णयति।