Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1488

1875 Mantra
Devata- इन्द्रः Rishi- गृत्समदः शौनकः Chhand- अतिशक्वरी Swara- पञ्चमः
Mantra with Swara
अ꣢ध꣣ त्वि꣡षी꣢माꣳ अ꣣भ्यो꣡ज꣢सा꣣ कृ꣡विं꣢ यु꣣धा꣡भ꣢व꣣दा꣡ रोद꣢꣯सी अपृणदस्य म꣣ज्म꣢ना꣣ प्र꣡ वा꣢वृधे । अ꣡ध꣢त्ता꣣न्यं꣢ ज꣣ठ꣢रे꣣ प्रे꣡म꣢रिच्यत꣣ प्र꣡ चे꣢तय꣣ सै꣡न꣢ꣳ सश्चद्दे꣣वो꣢ दे꣣व꣢ꣳ स꣣त्य꣡ इन्दुः꣢꣯ स꣣त्य꣡मिन्द्र꣢꣯म् ॥१४८८॥

अ꣡ध꣢꣯ । त्वि꣡षी꣢꣯मान् । अ꣣भि꣢ । ओ꣡ज꣢꣯सा । कृ꣡वि꣢꣯म् । यु꣣धा꣢ । अ꣣भवत् । आ꣢ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । अ꣣पृणत् । अस्य । मज्म꣡ना꣢ । प्र꣢ । वा꣣वृधे । अ꣡ध꣢꣯त्त । अ꣣न्य꣢म् । अ꣣न् । य꣢म् । ज꣣ठ꣡रे꣢ । प्र । ई꣣म् । अरिच्यत । प्र꣢ । चे꣣तय । सः꣢ । ए꣣नम् । सश्चत् । दे꣣वः꣢ । दे꣣व꣢म् । स꣣त्यः꣢ । इ꣡न्दुः꣢꣯ । स꣣त्य꣢म् । इ꣡न्द्र꣢꣯म् ॥१४८८॥

Mantra without Swara
अध त्विषीमाꣳ अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे । अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनꣳ सश्चद्देवो देवꣳ सत्य इन्दुः सत्यमिन्द्रम् ॥

अध । त्विषीमान् । अभि । ओजसा । कृविम् । युधा । अभवत् । आ । रोदसीइति । अपृणत् । अस्य । मज्मना । प्र । वावृधे । अधत्त । अन्यम् । अन् । यम् । जठरे । प्र । ईम् । अरिच्यत । प्र । चेतय । सः । एनम् । सश्चत् । देवः । देवम् । सत्यः । इन्दुः । सत्यम् । इन्द्रम् ॥१४८८॥

Samveda - Mantra Number : 1488
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अध) अथ (त्विषीमान्) प्रशस्तदीप्तियुक्तः स इन्द्रो जगदीश्वरः (ओजसा) बलेन (युधा) युद्धेन (क्रिविम्) हिंसकं जनम्। [कृणोतेर्हिंसार्थादौणादिकः क्विन् प्रत्ययः।] (अभिभवत्) अभिभवति। स एव (रोदसी) द्यावापृथिव्यौ (आ पृणत्) अप्तेजआदिभिरैश्वर्यैः आपूरयति। (अस्य) इन्द्रस्य जगदीश्वरस्य (मज्मना) बलेन, सर्वमिदं जगत् (प्र वावृधे) प्रवर्धते। स जगदीश्वरः (अन्यम्) कञ्चित् दुष्टाचारिणम् इत्यर्थः (जठरे) भूकम्पादिना भूमिं विदार्य तस्या उदरे (अधत्त) दधाति, (ईम्) कश्चिच्च सदाचारवान् जनः (प्र अरिच्यत) अस्य महिम्ना प्रवर्धते। (सः) असौ (देवः) दिव्यगुणः (सत्यः) सत्यप्रियः (इन्दुः) तेजस्वी उपासकः (देवम्) प्रकाशकम् (सत्यम्) सत्यगुणकर्मस्वभावम् (एनम् इन्द्रम्) एतं परमैश्वर्यवन्तं जगदीश्वरम् त्वाम् (सश्चत्) प्राप्नुयात्। हे जगदीश्वर ! त्वम् तम् उपासकम् (प्रचेतय) प्रज्ञापय ॥३॥२
Essence
ये सज्जनान् पीडयन्ति तान् यो जगत्स्रष्टाऽपरिमितबलोऽजय्यो जगदीश्वरो यथायोग्यं दण्डयति तं सर्वे श्रद्धया प्रेम्णा च समुपास्य स्वाभीष्टानि पूरयन्तु ॥३॥ अस्मिन् खण्डे उपास्योपासकविषयस्य परमात्मनो महिम्नश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्य-श्रीमद्गोपालरामभगवतीदेवीतनयेन हरिद्वारीयगुरुकुलकाङ्गड़ीविश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्दसरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके षष्ठः प्रपाठकः समाप्तिमगात् ॥
Subject
अथ परमात्मनो महिमानमुपासकविषयं चाह।