Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1487

1875 Mantra
Devata- इन्द्रः Rishi- गृत्समदः शौनकः Chhand- अतिशक्वरी Swara- पञ्चमः
Mantra with Swara
सा꣣कं꣢ जा꣣तः꣡ क्रतु꣢꣯ना सा꣣क꣡मोज꣢꣯सा ववक्षिथ सा꣣कं꣢ वृ꣣द्धो꣢ वी꣣꣬र्यैः꣢꣯ सास꣣हि꣢꣫र्मृधो꣣ वि꣡च꣢र्षणिः । दा꣢ता꣣ रा꣡ध꣢ स्तुव꣣ते꣢꣫ काम्यं꣣ व꣢सु꣣ प्र꣡चे꣢तन꣣ सै꣡न꣢ꣳ सश्चद्दे꣣वो꣢ दे꣣व꣢ꣳ स꣣त्य꣡ इन्दुः꣢꣯ स꣣त्य꣡मिन्द्र꣢꣯म् ॥१४८७॥

सा꣣क꣢म् । जा꣣तः꣢ । क्र꣡तु꣢꣯ना । सा꣣क꣢म् । ओ꣡ज꣢꣯सा । व꣣वक्षिथ । साक꣢म् । वृ꣣द्धः꣢ । वी꣣र्यैः꣢ । सा꣣सहिः꣢ । मृ꣡धः꣢꣯ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । दा꣡ता꣢꣯ । रा꣡धः꣢꣯ । स्तु꣣वते꣢ । का꣡म्य꣢꣯म् । व꣡सु꣢꣯ । प्र꣡चे꣢꣯तन । प्र । चे꣣तन । सः꣢ । ए꣣नम् । सश्चत् । देवः꣡ । दे꣣व꣢म् । स꣣त्यः꣢ । इ꣡न्दुः꣢꣯ । स꣣त्य꣢म् । इ꣡न्द्र꣢꣯म् ॥१४८७॥

Mantra without Swara
साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः । दाता राध स्तुवते काम्यं वसु प्रचेतन सैनꣳ सश्चद्देवो देवꣳ सत्य इन्दुः सत्यमिन्द्रम् ॥

साकम् । जातः । क्रतुना । साकम् । ओजसा । ववक्षिथ । साकम् । वृद्धः । वीर्यैः । सासहिः । मृधः । विचर्षणिः । वि । चर्षणिः । दाता । राधः । स्तुवते । काम्यम् । वसु । प्रचेतन । प्र । चेतन । सः । एनम् । सश्चत् । देवः । देवम् । सत्यः । इन्दुः । सत्यम् । इन्द्रम् ॥१४८७॥

Samveda - Mantra Number : 1487
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र जगदीश्वर ! त्वम् (क्रतुना) कर्मणा प्रज्ञया च (साकम्) सह, (ओजसा) बलेन च (साकम्) सह (जातः) प्रसिद्धोऽसि, अतएव त्वम् (ववक्षिथ) जगद्भारं वहसि। त्वम् (वीर्यैः साकम्) पराक्रमैः सह (वृद्धः) प्रवृद्धः, (मृधः सासहिः) हिंसकान् अभिभविता, (विचर्षणिः) विवेकेन पुण्यापुण्यकृतां द्रष्टा च भवसि। हे (प्रचेतन) प्रचेतयितः ! त्वम् (स्तुवते) स्तुतिं कुर्वते जनाय (राधः) साफल्यम् (काम्यं वसु) अभीष्टं धनं च (दाता) प्रदाता भवसि। (सः) असौ (देवः) दिव्यगुणः, (सत्यः) सत्यप्रियः (इन्दुः) प्रदीप्तः स्तोता (एनम्) इमम् (देवम्) दिव्यगुणम्, (सत्यम्) सत्यगुणकर्मस्वभावम् (इन्द्रम्) परमैश्वर्यवन्तं जगदीश्वरं त्वाम् (सश्चत्) प्राप्नुयात् ॥२॥२
Essence
यो ज्ञानेन कर्मणा बलेन पराक्रमेण च सर्वातिशायी, सदाचारिणः स्तोतुः सन्मनोरथानां पूरयिता च वर्तते तं जगदीश्वरं ध्यात्वा प्राप्य च सर्वे जना आप्तकामा भूयासुः ॥२॥
Subject
अथ पुनरुपास्योपासकयोर्विषय एव वर्ण्यते।