Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1486

1875 Mantra
Devata- इन्द्रः Rishi- गृत्समदः शौनकः Chhand- अष्टिः Swara- मध्यमः
Mantra with Swara
त्रि꣡क꣢द्रुकेषु महि꣣षो꣡ यवा꣢꣯शिरं तुविशु꣣ष्म꣢स्तृ꣣म्प꣡त्सो꣢꣯ममपिब꣣द्वि꣡ष्णु꣢ना सु꣣तं꣡ य꣢थाव꣣श꣢म् । स꣡ ईं꣢ ममाद꣣ म꣢हि꣣ क꣢र्म꣣ क꣡र्त꣢वे म꣣हा꣢मु꣣रु꣡ꣳ सैन꣢꣯ꣳ सश्चद्दे꣣वो꣢ दे꣣व꣢ꣳ स꣣त्य꣡ इन्दुः꣢꣯ स꣣त्य꣡मिन्द्र꣢꣯म् ॥१४८६॥

त्रि꣡क꣢꣯द्रुकेषु । त्रि । क꣣द्रुकेषु । महिषः꣢ । य꣢वा꣢꣯शिरम् । य꣡व꣢꣯ । आ꣣शिरम् । तुविशुष्मः꣢ । तु꣣वि । शुष्मः꣢ । तृ꣣म्प꣢त् । सो꣡म꣢꣯म् । अ꣣पिबत् । वि꣡ष्णु꣢꣯ना । सु꣣त꣢म् । य꣡थावश꣢म् । य꣣था । वश꣢म् । सः । ई꣣म् । ममाद । म꣡हि꣢꣯ । क꣡र्म꣢꣯ । क꣡र्त꣢꣯वे । म꣣हा꣢म् । उ꣣रु꣢म् । सः । ए꣣नम् । सश्चत् । देवः꣢ । दे꣣व꣢म् । स꣣त्यः꣢ । इ꣡न्दुः꣢꣯ । स꣣त्य꣢म् । इ꣡न्द्र꣢꣯म् ॥१४८६॥

Mantra without Swara
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् । स ईं ममाद महि कर्म कर्तवे महामुरुꣳ सैनꣳ सश्चद्देवो देवꣳ सत्य इन्दुः सत्यमिन्द्रम् ॥

त्रिकद्रुकेषु । त्रि । कद्रुकेषु । महिषः । यवाशिरम् । यव । आशिरम् । तुविशुष्मः । तुवि । शुष्मः । तृम्पत् । सोमम् । अपिबत् । विष्णुना । सुतम् । यथावशम् । यथा । वशम् । सः । ईम् । ममाद । महि । कर्म । कर्तवे । महाम् । उरुम् । सः । एनम् । सश्चत् । देवः । देवम् । सत्यः । इन्दुः । सत्यम् । इन्द्रम् ॥१४८६॥

Samveda - Mantra Number : 1486
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(त्रिकद्रुकेषु) त्रीणि ऋग्यजुःसामरूपाणि कद्रुकाणि साधनानि येषु तेषु उपासनायज्ञेषु (महिषः) महान् जीवात्मा (विष्णुना) सर्वव्यापकेन परमात्मना (सुतम्) क्षारितम् (यवाशिरम्) योगाभ्यासेन परिपक्वम् (तुविशुष्मम्) बहुबल-प्रदम् (सोमम्) ब्रह्मानन्दरसम् (यथावशम्) यथेच्छम् (अपिबत्) पिबति। (सः) ब्रह्मानन्दरसः (महाम्) महान्तम्, (उरुम्) विस्तीर्णज्ञानम् (ईम्) एनं जीवात्मानम् (महि कर्म) महत् कर्म (कर्तवे) कर्तुम् (ममाद) उत्साहयति। (सः) असौ (देवः) प्रकाशकः, (सत्यः) अवितथः (इन्दुः) उपासकस्य क्लेदकः ब्रह्मानन्दरसः (देवम्) दिव्यगुणम्, (सत्यम्) सत्यप्रियम् (एनम् इन्द्रम्) एतं जीवात्मानम् (सश्चत्) निरन्तरं प्राप्नोति ॥१॥२
Essence
वेदमन्त्रगानपुरस्सरं मानवो यदा परमात्मानं ध्यायति तदा परमात्मसकाशाद् धाराप्रवाहेण प्रवहन् परमानन्दरसस्तदात्मानं नैरन्तर्येण स्नपयति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४५७ क्रमाङ्के सूर्यचन्द्रविषये गुरुशिष्यविषये च व्याख्याता। अत्रोपास्योपासकविषयः प्रदर्श्यते।