Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1485

1875 Mantra
Devata- इन्द्रः Rishi- बृहद्दिव आथर्वणः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
त्वे꣢꣫ क्रतु꣣म꣡पि꣢ वृञ्जन्ति꣣ वि꣢श्वे꣣ द्वि꣢꣫र्यदे꣣ते꣢꣫ त्रिर्भव꣣न्त्यू꣡माः꣢ । स्वा꣣दोः꣡ स्वादी꣢꣯यः स्वा꣣दु꣡ना꣢ सृजा꣣ स꣢म꣣दः꣢꣫ सु मधु꣣ म꣡धु꣢ना꣣भि꣡ यो꣢धीः ॥१४८५॥

त्वे꣡इति꣢ । क्र꣡तु꣢꣯म् । अ꣡पि꣢꣯ । वृ꣣ञ्जन्ति । वि꣡श्वे꣢꣯ । द्विः । यत् । ए꣣ते꣢ । त्रिः । भ꣡व꣢꣯न्ति । ऊ꣡माः꣢꣯ । स्वा꣣दोः꣢ । स्वा꣡दी꣢꣯यः । स्वा꣣दु꣡ना꣢ । सृ꣣ज । स꣢म् । अ꣣दः꣢ । सु । म꣡धु꣢꣯ । म꣡धु꣢꣯ना । अ꣣भि꣢ । यो꣣धीः ॥१४८५॥

Mantra without Swara
त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः । स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥

त्वेइति । क्रतुम् । अपि । वृञ्जन्ति । विश्वे । द्विः । यत् । एते । त्रिः । भवन्ति । ऊमाः । स्वादोः । स्वादीयः । स्वादुना । सृज । सम् । अदः । सु । मधु । मधुना । अभि । योधीः ॥१४८५॥

Samveda - Mantra Number : 1485
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र जगदीश्वर ! (यत् एते) यद् इमे (ऊमाः) रक्षकाः मातापित्रातिथिसंन्यासिप्रभृतयो जनाः (द्विः) द्विवारम् (त्रिः) त्रिवारं वा (भवन्ति) जन्म गृह्णन्ति, ते (त्वे) त्वयि एव (क्रतुम्) क्रियमाणं सर्वमपि कर्म (अपि वृञ्जन्ति) समर्पयन्ति। त्वम् (स्वादुना) मधुरेण मदीयेन आनन्देन साकम् (स्वादोः स्वादीयः) स्वकीयं मधुरान्मधुरतरम् आनन्दम् (सं सृज) संमेलय। (अदः) इदम् (सुमधु) अतिशयेन मधुरं स्वकीयं रसम् (मधुना) मम मधुरेण जीवननेन (अभियोधीः) संघट्टय, संमेलय इत्यर्थः ॥३॥ अत्र स्वादोः, स्वादीयः, स्वादु इति वृत्त्यनुप्रासः, दकारसकारधकाराणामावृत्तावपि स एव। ‘मधु, मधु’ इति च छेकानुप्रासः ॥३॥
Essence
एकं जन्म मातापित्रोः सकाशात्, द्वितीयं जन्म चाचार्यस्य सकाशाद् गृहीत्वा मानवो द्विजो जायते, यच्च गृहस्थाश्रमं प्रविश्य सन्तानमुत्पादयति तदस्य तृतीयं जन्म ‘आत्मा वै पुत्र नामासि’। निरु० ३।४ इति स्मरणात्। येऽपि द्विजास्त्रिजा वा महापुरुषा भवन्ति ते परमात्मन्येव स्वकीयं सर्वस्वमर्पयन्ति, परमात्मा च तत्कृते मधुरमधुरं स्वकीयमानन्दरसं वर्षति ॥३॥
Subject
अथ जगदीश्वरस्य प्रभाववर्णनपूर्वकं स प्रार्थ्यते।