Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1482

1875 Mantra
Devata- अग्निः Rishi- हर्यतः प्रागाथः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣢प꣣ स्र꣡क्वे꣢षु꣣ ब꣡प्स꣢तः कृण्व꣣ते꣢ ध꣣रु꣡णं꣢ दि꣣वि꣢ । इ꣡न्द्रे꣢ अ꣣ग्ना꣢꣫ नमः꣣꣬ स्वः꣢꣯ ॥१४८२॥

उ꣡प꣢꣯ । स्र꣡क्वे꣢꣯षु । ब꣡प्स꣢꣯तः । कृ꣣ण्व꣢ते । ध꣣रु꣡ण꣢म् । दि꣣वि꣢ । इ꣡न्द्रे꣢꣯ । अ꣣ग्ना꣢ । न꣡मः꣢꣯ । स्व३रि꣡ति꣢ ॥१४८२॥

Mantra without Swara
उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि । इन्द्रे अग्ना नमः स्वः ॥

उप । स्रक्वेषु । बप्सतः । कृण्वते । धरुणम् । दिवि । इन्द्रे । अग्ना । नमः । स्व३रिति ॥१४८२॥

Samveda - Mantra Number : 1482
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
उपासकाः जनाः (स्रक्वेषु) आत्मसमर्पणेषु। [सृज विसर्गे इति धातोरौणादिकः क्वन् प्रत्ययः धातोः सम्प्रसारणं च।] (उप बप्सतः) उपेत्य दुरितानि भक्षयतः अग्नेः परमात्मनः। [बप्सति अत्तिकर्मा। निघं० २।८।] (दिवि) स्वात्मनि (धरुणम्) धारणम् (कृण्वते) कुर्वन्ति। ते च (इन्द्रे) परमैश्वर्यशालिनि विघ्नविदारके (अग्ना) अग्नौ अग्रनायके परमात्मनि (नमः) नमस्कारं समर्प्य (स्वः) प्रकाशं, लभन्ते इति शेषः ॥३॥
Essence
ध्यानेन परमात्मानं स्वात्मनि धारयित्वा श्रद्धया नमस्कृत्य चोपासकाः परं ज्योतिः प्राप्तुमर्हन्ति ॥३॥
Subject
अथ पुनरपि स एव विषयो वर्ण्यते।