Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1480

1875 Mantra
Devata- अग्निः Rishi- हर्यतः प्रागाथः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣢ सु꣣ते꣡ सि꣢ञ्च꣣त श्रि꣢य꣣ꣳ रो꣡द꣢स्योरभि꣣श्रि꣡य꣢म् । र꣣सा꣡ द꣢धीत वृष꣣भ꣢म् ॥१४८०॥

आ꣢ । सु꣢ते꣡ । सि꣢ञ्चत । श्रि꣡य꣢꣯म् । रो꣡द꣢꣯स्योः । अ꣣भिश्रि꣡य꣢म् । अ꣣भि । श्रि꣡य꣢꣯म् । र꣣सा꣢ । द꣣धीत । वृषभ꣢म् ॥१४८०॥

Mantra without Swara
आ सुते सिञ्चत श्रियꣳ रोदस्योरभिश्रियम् । रसा दधीत वृषभम् ॥

आ । सुते । सिञ्चत । श्रियम् । रोदस्योः । अभिश्रियम् । अभि । श्रियम् । रसा । दधीत । वृषभम् ॥१४८०॥

Samveda - Mantra Number : 1480
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मानवाः ! यूयम् (सुते) भक्तिरसे अभिषुते सति (रोदस्योः) द्यावापृथिव्योः (अभिश्रियम्) शोभासम्पादकम् [अभिगता श्रीर्येन सः अभिश्रीः तम्।] (श्रियम्) आश्रयणीयम् अग्निं जगदीश्वरम् (आ सिञ्चत) भक्तिरसेन क्लेदयत। (रसा) जगदीश्वरान्निःसृता आनन्दरसनदी (वृषभम्) युष्माकं ज्ञानसिक्तं जीवात्मानम् (दधीत) परिपुष्णीयात् ॥१॥२ अत्र ‘श्रियम्’ इत्यस्य पुनरुक्तौ यमकालङ्कारः ॥१॥
Essence
यदा परमेश्वरस्योपासकास्तं प्रति भक्तिरसतरङ्गिणीं प्रवाहयन्ति तदा परमेश्वरस्तान् प्रत्यानन्दरसतरङ्गिणीं प्रवाहयति ॥१॥
Subject
तत्रादावुपास्योपासकविषये वर्ण्यते।