Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 148

1875 Mantra
Devata- इन्द्रः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
य꣢꣫दिन्द्रो꣣ अ꣡न꣢य꣣द्रि꣡तो꣢ म꣣ही꣢र꣣पो꣡ वृष꣢꣯न्तमः । त꣡त्र꣢ पू꣣षा꣡भु꣢व꣣त्स꣡चा꣢ ॥१४८॥

य꣢त् । इ꣡न्द्रः꣢꣯ । अ꣡न꣢꣯यत् । रि꣡तः꣢꣯ । म꣣हीः꣢ । अ꣣पः꣢ । वृ꣡ष꣢꣯न्तमः । त꣡त्र꣢꣯ । पू꣣षा꣢ । अ꣣भुवत् । स꣡चा꣢꣯ ॥१४८॥

Mantra without Swara
यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः । तत्र पूषाभुवत्सचा ॥

यत् । इन्द्रः । अनयत् । रितः । महीः । अपः । वृषन्तमः । तत्र । पूषा । अभुवत् । सचा ॥१४८॥

Samveda - Mantra Number : 148
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वृषन्तमः) बलवत्तमः वर्षकतमो वा (इन्द्रः) परमेश्वरः (यत्) यदा (रितः२) गन्त्रीः। रिणन्तीति रितः। रिणातिः गतिकर्मा। निघं० २।१४। क्विपि ह्रस्वस्य पिति कृति तुक् अ० ६।१।७१ इति तुक्। (महीः) पृथिवीचन्द्रादिग्रहोपग्रहरूपाः भूमीः, (अनयत्) स्वस्वरक्षासु सूर्यं परितो भ्रमयति, (अपः) जलानि च (अनयत्) वाष्पीकरणेन ऊर्ध्वं वर्षणेन च अधः प्रापयति, तदा (तत्र) तस्मिन् कर्मणि (पूषा) पुष्टिप्रदः सूर्यः (सचा) सहायकः। सचा सह। निरु० ५।५। (अभुवत्) भवति। भू धातोर्लङि छन्दसि गुणाभावे उवङादेशः ॥४॥३
Essence
महामहिमशालिना जगदीश्वरेणैव सूर्यविद्युत्पर्जन्यपवनादीन् साधनतां नीत्वा सर्वे प्राकृतिकनियमाः सञ्चाल्यन्ते ॥४॥
Subject
परमेश्वर एव सूर्यद्वारा भूमीरपश्च गमयतीत्याह।
Footnote
१. ऋ० ६।५७।४ देवते इन्द्रापूषणौ। भुवत् इत्यत्र भवत् इति पाठः। २. रितः गन्त्रीः महीः भूमीः, अपः जलानि—इति ऋग्भाष्ये द०। इन्द्रो रितः गतः प्राप्तः सन्नित्यर्थः। महीरपः महान्ति वृष्टिलक्षणान्युदकानि—इति वि०। रितः गन्त्र्यः। रियतेर्गतिकर्मणः क्विपि रूपं रिदिति। महीः महतीः अपः—इति भ०। रितः गच्छतीः महीः महतीः अपः वृष्ट्युदकानि—इति सा०। ३. दयानन्दर्षिणा ऋग्भाष्ये मन्त्रस्यास्य व्याख्याने इन्द्र शब्देन विद्युत्, पूषन् शब्देन च भूमिर्गृहीता।