Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1475

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡ नो꣢ म꣣न्द्रा꣡भि꣢रध्व꣣रे꣢ जि꣣ह्वा꣡भि꣢र्यजा म꣣हः꣢ । आ꣢ दे꣣वा꣡न्व꣢क्षि꣣ य꣡क्षि꣢ च ॥१४७५॥

सः꣢ । नः꣣ । मन्द्रा꣡भिः꣢ । अ꣣ध्वरे꣢ । जि꣣ह्वा꣡भिः꣢ । य꣣ज । महः꣢ । आ । दे꣣वा꣢न् । व꣣क्षि । य꣡क्षि꣢꣯ । च꣣ ॥१४७५॥

Mantra without Swara
स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः । आ देवान्वक्षि यक्षि च ॥

सः । नः । मन्द्राभिः । अध्वरे । जिह्वाभिः । यज । महः । आ । देवान् । वक्षि । यक्षि । च ॥१४७५॥

Samveda - Mantra Number : 1475
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे अग्ने ! हे सर्वाग्रणीः परमात्मन् ! (सः) असौ त्वम् (मन्दाभिः) हर्षकरीभिः (जिह्वाभिः) वेदवाग्भिः। [जिह्वेति वाङ्नाम। निघं० १।११।] (अध्वरे) जीवनयज्ञे (नः) अस्मान् (महः) तेजः (यज) सङ्गमय, प्रापय। किञ्च (देवान्) दिव्यान् गुणान् (आवक्षि) आवह, (यक्षि च) अस्माभिः सङ्गतिं च कुरु। [वक्षि, यक्षि इति वहतेर्यजतेश्च लेटि सिपि रूपम्] ॥२॥२
Essence
जगत्पितुः परमेश्वरस्येयं महती कृपा यत्तेनास्मभ्यं वेदवाक् प्रदत्ता यया वयं स्वकर्तव्यं बुध्यामहे, यतश्च वयं तेजःपुरुषार्थादिकस्य प्रेरणां प्राप्नुमः ॥२॥
Subject
अथ परमेश्वरः प्रार्थ्यते।