Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1474

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- वर्धमाना गायत्री Swara- षड्जः
Mantra with Swara
त्व꣡म꣢ग्ने य꣣ज्ञा꣢ना꣣ꣳ हो꣢ता꣣ वि꣡श्वे꣣षाꣳ हि꣣तः꣢ । दे꣣वे꣢भि꣣र्मा꣡नु꣢षे꣣ ज꣡ने꣢ ॥१४७४॥

त्व꣢म् । अ꣣ग्ने । यज्ञा꣡ना꣢म् । हो꣡ता꣢꣯ । वि꣡श्वे꣢꣯षाम् । हि꣡तः꣢ । दे꣣वे꣡भिः꣢ । मा꣡नु꣢꣯षे । ज꣡ने꣢꣯ ॥१४७४॥

Mantra without Swara
त्वमग्ने यज्ञानाꣳ होता विश्वेषाꣳ हितः । देवेभिर्मानुषे जने ॥

त्वम् । अग्ने । यज्ञानाम् । होता । विश्वेषाम् । हितः । देवेभिः । मानुषे । जने ॥१४७४॥

Samveda - Mantra Number : 1474
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रणीर्ज्ञानवन् सर्वान्तर्यामिन् तेजोमय कल्मषदाहक परमेश्वर ! (त्वम्) सर्वोपकर्त्ता (यज्ञानाम्) देवपूजासंगतिकरणदानरूपाणां व्यवहाराणाम् (होता)असि, (विश्वेषाम्) सर्वेषाम् (हितः) हितकारी च वर्तसे। अपि च, (मानुषे जने) मानवे समाजे, (देवेभिः) सदाचारिभिः विद्वद्भिः उपास्यसे इति शेषः ॥१॥२
Essence
जगदीश्वरोऽस्माकं पिता भूत्वाऽस्मान् सर्वान् व्यवहारान् शिक्षयति, न्यायकारी दयालुश्च स सर्वेषां हितकर्ताऽस्तीति कृत्वा सर्वैर्जनैः पूजनीयः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २ क्रमाङ्के परमात्मसूर्ययोर्विषये व्याख्याता। अत्र परमेश्वरस्य गुणकर्माणि वर्णयति।