Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1473

1875 Mantra
Devata- पवमानः सोमः Rishi- उशनाः काव्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
शु꣣ष्मी꣢꣫ शर्धो꣣ न꣡ मारु꣢꣯तं पव꣣स्वा꣡न꣢भिशस्ता दि꣣व्या꣢꣫ यथा꣣ वि꣢ट् । आ꣢पो꣣ न꣢ म꣣क्षू꣡ सु꣢म꣣ति꣡र्भ꣢वा नः स꣣ह꣡स्रा꣢प्साः पृतना꣣षा꣢꣫ण् न य꣣ज्ञः꣢ ॥१४७३॥

शुष्मी꣢ । श꣡र्धः꣢꣯ । न । मा꣡रु꣢꣯तम् । प꣣वस्व । अ꣡न꣢꣯भिशस्ता । अन् । अ꣣भिशस्ता । दिव्या꣢ । य꣡था꣢꣯ । विट् । आ꣡पः꣢꣯ । न । म꣣क्षु꣢ । सु꣣मतिः꣢ । सु꣣ । मतिः꣢ । भ꣣व । नः । सहस्रा꣡प्साः꣢ । स꣣ह꣡स्र꣢ । अ꣣प्साः । पृतनाषा꣢ट् । न । य꣣ज्ञः꣢ ॥१४७३॥

Mantra without Swara
शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् । आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण् न यज्ञः ॥

शुष्मी । शर्धः । न । मारुतम् । पवस्व । अनभिशस्ता । अन् । अभिशस्ता । दिव्या । यथा । विट् । आपः । न । मक्षु । सुमतिः । सु । मतिः । भव । नः । सहस्राप्साः । सहस्र । अप्साः । पृतनाषाट् । न । यज्ञः ॥१४७३॥

Samveda - Mantra Number : 1473
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम शान्तिप्रिय मानव ! (शुष्मी) बलवान् (मारुतं शर्धः न) मरुतां गणः इव (पवस्व) क्रियाशीलो भव। किञ्च, (दिव्या विट्) दिव्यगुणयुक्ता विदुषी प्रजा (यथा) यद्वत् (अनभिशस्ता२) अनिन्दिता भवति, तथा त्वम् अनिन्दितो भव। अपि च, (आपः न) नद्यः इव (मक्षु) शीघ्रत्वेन (नः) अस्मभ्यम् (सुमतिः) परोपकारमतिः (भव) जायस्व। तथा च, (सहस्राप्साः) सहस्ररूपः। [अप्स इति रूपनाम। निघं० ३।७।] (पृतनाषाट् न) सेनानां पराजेता सेनापतिरिव (यज्ञः) आत्मबलिदानकर्ता भव ॥३॥ अत्र मालोपमालङ्कारः ॥३॥
Essence
मानवा यदि वायुगणा इव बलिनो, विद्वांस इव प्रशस्ता, नद्य इव परोपकारपरायणाः, सेनापतय इवात्मबलिदानकर्तारो भवेयुस्तर्हि नूनं राष्ट्रं सर्वोन्नतं स्यात् ॥३॥
Subject
अथ मानवं प्रेरयति।