Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1472

1875 Mantra
Devata- पवमानः सोमः Rishi- उशनाः काव्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स꣢ ई꣣ꣳ र꣢थो꣣ न꣡ भु꣢रि꣣षा꣡ड꣢योजि म꣣हः꣢ पु꣣रू꣡णि꣢ सा꣣त꣢ये꣣ व꣡सू꣢नि । आ꣢दीं꣣ वि꣡श्वा꣢ नहु꣣꣬ष्या꣢꣯णि जा꣣ता꣡ स्व꣢र्षाता꣣ व꣡न꣢ ऊ꣣र्ध्वा꣡ न꣢वन्त ॥१४७२॥

सः । ई꣣म् । र꣡थः꣢꣯ । न । भु꣣रिषा꣢ट् । अ꣣योजि । महः꣢ । पु꣣रू꣡णि꣢ । सा꣣त꣡ये꣢ । व꣡सू꣢꣯नि । आत् । ई꣣म् । वि꣡श्वा꣢꣯ । न꣣हुष्या꣢णि । जा꣣ता꣢ । स्व꣡र्षा꣢ता । स्वः꣡ । सा꣣ता । व꣡ने꣢꣯ । ऊ꣣र्ध्वा꣡ । न꣣वन्त ॥१४७२॥

Mantra without Swara
स ईꣳ रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि । आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥

सः । ईम् । रथः । न । भुरिषाट् । अयोजि । महः । पुरूणि । सातये । वसूनि । आत् । ईम् । विश्वा । नहुष्याणि । जाता । स्वर्षाता । स्वः । साता । वने । ऊर्ध्वा । नवन्त ॥१४७२॥

Samveda - Mantra Number : 1472
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः ईम्) सोऽयम् (भुरिषाट्) भूरीन् विघ्नान् सहते पराभवति यः सः (महः) महान् सोमः जीवात्मा (पुरूणि वसूनि) बहूनि ऐश्वर्याणि, बहूनामैश्वर्याणामित्यर्थः (सातये) प्राप्तये (रथः न) रथः इव (अयोजि) परमात्मना सह योजितोऽस्ति। (आत् ईम्) तदनन्तरमेव (विश्वा) विश्वानि (जाता) बलवन्ति जातानि (नहुष्याणि) मानुषाणि मनोबुद्ध्यादीनि। [नहुष इति मनुष्यनाम। निघं० २।३।] (स्वर्षाता) स्वर्षातौ प्रकाशस्य प्राप्तौ सत्याम् (वने) तेजसि [वनमिति रश्मिनाम। निघं० १।५।] (ऊर्ध्वा) ऊर्ध्वानि (भूत्वा नवन्त) अनवन्त क्रियाशीलानि जातानि। [नवते गतिकर्मा। निघं० २।१४, लडर्थे लङि अडभावश्छान्दसः] ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
यथा रथो यदा विद्युदग्निना युज्यते तदा सद्य एव सक्रियो जायते तथैव परमात्मनः सख्ये युक्तो जीवात्मा स्वयं पुरुषार्थी सन् मनोबुद्ध्यादीन्यपि सक्रियाणि करोति ॥२॥
Subject
अथ परमात्मनः सख्यस्य फलमाह।