Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1471

1875 Mantra
Devata- पवमानः सोमः Rishi- उशनाः काव्यः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ꣣य꣡ꣳ सोम꣢꣯ इन्द्र꣣ तु꣡भ्य꣢ꣳ सुन्वे꣣ तु꣡भ्यं꣢ पवते꣣ त्व꣡म꣢स्य पाहि । त्व꣢ꣳ ह꣣ यं꣡ च꣢कृ꣣षे꣡ त्वं व꣢꣯वृ꣣ष꣢꣫ इन्दुं꣣ म꣡दा꣢य꣣ यु꣡ज्या꣢य꣣ सो꣡म꣢म् ॥१४७१॥

अ꣡य꣢म् । सो꣡मः꣢꣯ । इ꣣न्द्र । तु꣡भ्य꣢꣯म् । सु꣣न्वे । तु꣡भ्य꣢꣯म् । सु꣣न्वे । तु꣡भ्य꣢꣯म् । प꣣वते । त्व꣢म् । अ꣣स्य । पाहि । त्व꣢म् । ह꣣ । य꣢म् । च꣣कृ꣢षे । त्वम् । ववृ꣣षे꣢ । इ꣡न्दु꣢꣯म् । म꣡दा꣢꣯य । यु꣡ज्या꣢꣯य । सो꣡म꣢꣯म् ॥१४७१॥

Mantra without Swara
अयꣳ सोम इन्द्र तुभ्यꣳ सुन्वे तुभ्यं पवते त्वमस्य पाहि । त्वꣳ ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥

अयम् । सोमः । इन्द्र । तुभ्यम् । सुन्वे । तुभ्यम् । सुन्वे । तुभ्यम् । पवते । त्वम् । अस्य । पाहि । त्वम् । ह । यम् । चकृषे । त्वम् । ववृषे । इन्दुम् । मदाय । युज्याय । सोमम् ॥१४७१॥

Samveda - Mantra Number : 1471
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जीवात्मन् ! (अयं सोमः) एष ब्रह्मानन्दरसः (तुभ्यम्) त्वदर्थम् (सुन्वे) अभिषूयते, (तुभ्यम्) त्वदर्थम् (पवते) प्रवहति, (त्वम् अस्य पाहि) त्वम् एतम् आस्वादय, (यम् इन्दुम्) क्लेदकम् (सोमम्)ब्रह्मानन्दरसम् (मदाय) उत्साहाय, (युज्याय) ब्रह्मणा सह सख्याय च (त्वं ह) त्वमेव (चकृषे) ब्रह्मणः सकाशात् उत्पादितवानसि, (त्वम्) त्वमेव च (ववृषे)तत्सकाशात् स्वोपरि वर्षितवान् असि ॥१॥
Essence
परमात्मना स्वात्मानं युञ्जाना योगिनस्तत्सकाशात् परमानन्दं प्राप्य कृतार्था जायन्ते ॥१॥
Subject
तत्रादौ आनन्दरसप्रवाहं वर्णयति।