Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 147

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣢꣫त्राह꣣ गो꣡र꣢मन्वत꣣ ना꣢म꣣ त्व꣡ष्टु꣢रपी꣣꣬च्य꣢꣯म् । इ꣣त्था꣢ च꣣न्द्र꣡म꣢सो गृ꣣हे꣢ ॥१४७॥

अ꣡त्र꣢꣯ । अ꣡ह꣢꣯ । गोः । अ꣣मन्वत । ना꣡म꣢꣯ । त्व꣡ष्टुः꣢꣯ । अ꣣पीच्य꣢꣯म् । इ꣣त्था꣢ । च꣣न्द्र꣡म꣢सः । च꣣न्द्र꣢ । म꣣सः । गृहे꣢ ॥१४७॥

Mantra without Swara
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहे ॥

अत्र । अह । गोः । अमन्वत । नाम । त्वष्टुः । अपीच्यम् । इत्था । चन्द्रमसः । चन्द्र । मसः । गृहे ॥१४७॥

Samveda - Mantra Number : 147
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सूर्याच्चन्द्रप्रकाशनपरः। (त्वष्टुः) विच्छेदकस्य, प्रकाशद्वारा शीघ्रं व्यापनशीलस्य, दीप्तस्य इन्द्रस्य३ सूर्यस्य। त्वक्ष तनूकरणे धातो रूपमिदम्। “त्वष्टा तूर्णमश्नुते इति नैरुक्ताः, त्विषेर्वा स्याद् दीप्तिकर्मणः, त्वक्षतेर्वा स्यात् करोतिकर्मणः” इति निरुक्तम्। ८।१४। (गोः) सुष्म्णरश्मेः (अत्र अह) अस्मिन् खलु (चन्द्रमसः गृहे) चन्द्रमण्डले (अपीच्यम्) अन्तर्हितं यथा स्यात्तथा, प्रच्छन्नरूपेणेत्यर्थः। अपीच्यमिति निर्णीतान्तर्हितनाम। निघं० ३।२५। (नाम) नमनम्, अवस्थानम्, विद्वांसः (इत्था) सत्यम्। इत्थेति सत्यनाम। निघं० ३।१०। (अमन्वत) मन्वते जानन्ति। मनु अवबोधने, तनादिः, लडर्थे लङ्। चन्द्रमाः सूर्यकिरणं प्रकाशितो भवतीति रहस्यं विद्वांसः सम्यग् विदन्तीति भावः ॥ अत्र निरुक्तम्। “अथाप्यस्य (आदित्यस्य) एको रश्मिश्चन्द्रमसं प्रति दीप्यते तदेतेनोपेक्षितव्यम्, आदित्यतोऽस्य दीप्तिर्भवतीति।” सुषु॒म्णः सूर्यर॑श्मिश्च॒न्द्रमा गन्ध॒र्वः य० १८।४० इत्यपि निगमो भवति। सोऽपि गौरुच्यते (निरु० २।६)। “अत्राह॒ गोर॑मन्व॒त”। (ऋ० १।८४।१५)। अत्र ह गोः सममंसतादित्यरश्मयः स्वं नाम अपीच्यम् अपचितम् अपगतम् अपहितम् अन्तर्हितं वाऽमुत्र चन्द्रमसो गृहे (निरु० ४।२४) इति ॥ अथ द्वितीयः—परमात्मपरः। (त्वष्टुः) दुःखविच्छेदकस्य, सर्वत्र व्यापकस्य, तेजसा दीप्तस्य, सर्वजगद्रचयितुश्च इन्द्राख्यस्य परमेश्वरस्य (गोः) दिव्यप्रकाशरश्मेः। सर्वेऽपि रश्मयो गाव उच्यन्ते इति निरुक्तम् २।७। (अत्र अह) अस्मिन् किल (चन्द्रमसः गृहे) मनसो निवासस्थाने हृदये। चन्द्रमसो मनसश्च सम्बन्धो बहुशो वर्णितः। यथा च॒न्द्रमा॒ म॑नसो जा॒तः। ऋ० १०।९०।१३। यत्तन्मन आसीत् स चन्द्रमा अभवत्। जै० उ० ब्रा० २।१।२।२। चन्द्रमा मनः। ऐ० आ० २।१।५। यत्तन्मन एष स चन्द्रमाः। श० १०।३।३।७ इति। (अपीच्यं नाम) अपिगमनम्। नामेति वाक्यालङ्कारे। उपासकाः (इत्था) सत्यतया (अमन्वत) अनुभवन्ति ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
Essence
यथा सूर्यस्य प्रकाशेन चन्द्रः प्रकाशितो भवति तथैव परमेश्वरस्य प्रकाशेन स्तोतॄणां हृदयानि प्रकाशन्ते ॥३॥
Subject
सूर्याच्चन्द्रः परमेश्वराच्च स्तोतुर्हृदयं प्रकाशत इत्याह।१
Footnote
१. अत्र राज्ञः सूर्यवत् कृत्यमुपदिश्यते—इति ऋग्भाष्ये द०। २. ऋ० १।८४।१५, अथ० २०।४१।३, साम० ९१५। ३. ऋचः इन्द्रदेवताकत्वात् त्वष्टुः इतीन्द्रस्य विशेषणं ज्ञेयम्।