Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1467

1875 Mantra
Devata- मित्रावरुणौ Rishi- यजत आत्रेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
वृ꣣ष्टि꣡द्या꣢वा री꣣꣬त्या꣢꣯पे꣣ष꣢꣫स्पती꣣ दा꣡नु꣢मत्याः । बृ꣣ह꣢न्तं꣣ ग꣡र्त꣢माशाते ॥१४६७॥

वृ꣣ष्टि꣡द्या꣢वा । वृ꣣ष्टि꣢ । द्या꣣वा । रीत्या꣢꣯पा । री꣣ति꣢ । आ꣣पा । इ꣢षः । प꣢꣯तीइ꣡ति꣢ । दा꣡नु꣢꣯मत्याः । बृ꣣ह꣡न्त꣢म् । ग꣡र्त꣢꣯म् । आ꣣शातेइ꣡ति꣢ ॥१४६७॥

Mantra without Swara
वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः । बृहन्तं गर्तमाशाते ॥

वृष्टिद्यावा । वृष्टि । द्यावा । रीत्यापा । रीति । आपा । इषः । पतीइति । दानुमत्याः । बृहन्तम् । गर्तम् । आशातेइति ॥१४६७॥

Samveda - Mantra Number : 1467
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। ये योगिनो विद्वांसः (ब्रध्नम्) महान्तम्। [ब्रध्न इति महन्नाम। निघं० ३।३।] (अरुषम्) आरोचमानम्, अहिंसकं करुणामयम्। [अरुषीः आरोचनात्। निरु० १२।७। रुष हिंसार्थः, भ्वादिः।] (तस्थुषः) सर्वान् स्थावरान् जगत्पदार्थान् स्थिरप्रकृतीन् मनुष्यान् वा। [तस्थुषः इति मनुष्यनामसु पठितम्। निघं० २।३।] (परिचरन्तम्) परिव्याप्नुवन्तम् इन्द्रं परमेश्वरम् (युञ्जन्ति) स्वात्मना सह योजयन्ति, ते (रोचना) रोचनाः दीप्तिमन्तः सन्तः (दिवि) द्योतनात्मके मोक्षधाम्नि (रोचन्ते) शोभन्ते ॥ द्वितीयः—आदित्यपरः। ये पृथिवीचन्द्रमङ्गलबुधबृहस्पत्यादयो लोकाः (ब्रध्नम्) महान्तम्, (अरुषम्) आरोचमानम्, (तस्थुषः) सर्वान् स्थावरान् पदार्थान् मनुष्यान् वा (परिचरन्तम्) स्वरश्मिभिर्व्याप्नुवन्तम् इन्द्रम् आदित्यम् (युञ्जन्ति) स्वात्मना सह योजयन्ति, ते (रोचना) रोचनाः दीप्तिमन्तः सन्तः (दिवि) आकाशे (रोचन्ते) प्रकाशन्ते। [असौ वा आदित्यो ब्रध्नोऽरुषः। श० १३।२।६।१] ॥ तृतीयः—प्राणपरः। ये उपासकाः (ब्रध्नम्) सर्वावयववृद्धिकरं महान्तम्, (अरुषम्) अहिंसकम्, (तस्थुषः) देहस्थान् सर्वानवयवान् (परिचरन्तम्) परिगच्छन्तम् इन्द्रं प्राणम् (युञ्जन्ति) प्राणायामरीत्या स्वात्मनि योजयन्ति, ते (रोचना) रोचनानि दीप्तिमन्ति नक्षत्राणि (दिवि) आकाशे इव इति लुप्तोपमम्, (रोचन्ते) तेजसा प्रकाशन्ते। [प्राण एवेन्द्रः। श० १२।९।१।१४। नक्षत्राणि वै रोचना दिवि। तै० ब्रा० ३।९।४।२] ॥ चतुर्थः—शिल्पपरः। हे शिल्पशास्त्रवेत्तारो विद्वांसो जनाः (ब्रध्नम्) महान्तम्, (अरुषम्) आरोचमानम्, (तस्थुषः) स्थावरान् वनौषध्यादीन् मनुष्यान् वा (परिचरन्तम्) परिप्राप्नुवन्तम् इन्द्रं पार्थिवाग्निं विद्युतं वायुं सूर्यं वा (युञ्जन्ति) भूजलान्तरिक्षयानेषु यन्त्रकलासु च योजयन्ति, ते (दिवि) आकाशे (रोचना) रोचनानि दीप्तिमन्ति नक्षत्राणि इव (रोचन्ते) यशस्विनो भवन्ति ॥१॥२ अत्र श्लेषालङ्कारस्तृतीयचतुर्थयोर्लुप्तोपमा च ॥१॥
Essence
यथा योगिभिः स्वात्मनि परमेश्वरस्य योगेन परमानन्दप्रकाशः शरीरावयवेषु प्राणयोगेन च प्राणसिद्धिः प्राप्यते, तथैव सूर्यरश्मीनां योगेनास्माकं सौरमण्डलस्य सर्वैर्ग्रहोपग्रहैर्भौतिकप्रकाशः शिल्पिभिर्यानादिष्वग्निवायुविद्युत्सूर्ययोगेन च यशः प्राप्यते ॥१॥
Subject
तत्राद्ये मन्त्रे इन्द्रशब्देन परमात्मसूर्यप्राणादयो गृह्यन्ते।