Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1466

1875 Mantra
Devata- मित्रावरुणौ Rishi- यजत आत्रेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ऋ꣣त꣢मृ꣣ते꣢न꣣ स꣡प꣢न्तेषि꣣रं꣡ दक्ष꣢꣯माशाते । अ꣣द्रु꣡हा꣢ दे꣣वौ꣡ व꣢र्धेते ॥१४६६॥

ऋ꣣त꣢म् । ऋ꣣ते꣡न꣢ । स꣡प꣢꣯न्ता । इ꣣षिर꣢म् । द꣡क्ष꣢꣯म् । आ꣣शातेइ꣡ति꣢ । अ꣣द्रु꣡हा꣢ । अ꣣ । द्रु꣡हा꣢꣯ । दे꣣वौ꣢ । व꣣र्धेतेइ꣡ति꣢ ॥१४६६॥

Mantra without Swara
ऋतमृतेन सपन्तेषिरं दक्षमाशाते । अद्रुहा देवौ वर्धेते ॥

ऋतम् । ऋतेन । सपन्ता । इषिरम् । दक्षम् । आशातेइति । अद्रुहा । अ । द्रुहा । देवौ । वर्धेतेइति ॥१४६६॥

Samveda - Mantra Number : 1466
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
इमौ मित्रावरुणौ ब्राह्मणक्षत्रियौ (ऋतम्) राष्ट्रयज्ञम्। [ऋतस्य योगे यज्ञस्य योगे इति यास्कः। निरु० ६।२२।] (ऋतेन) सत्येन ब्रह्मबलेन क्षात्रबलेन च (सपन्ता) सपन्तौ परिचरन्तौ। [सपतिः परिचरणकर्मा। निघं० ३।५।] (इषिरम्) प्रेरकम् (दक्षम्) उत्साहम् (आशाते) व्याप्नुतः। [इषिरम्—इष गतौ दिवादिः। ‘इषिमदि०’ उ० १।५१ इत्यनेन किरच् प्रत्ययः। दक्षम् दक्षतिरुत्साहकर्मा। निरु० १।६।] (अद्रुहा) अद्रुहौ परस्परम् अद्रोग्धारौ, (देवौ) ब्रह्मवर्चसेन क्षात्रेण च तेजसा प्रकाशमानौ दानादिगुणयुक्तौ इमौ (वर्धेते) वृद्धिं प्राप्नुतः ॥२॥२
Essence
परस्परं द्रोहमकुर्वाणौ प्रत्युत सहयोगं कुर्वन्तौ ब्राह्मणक्षत्रियौ ब्रह्मबलं क्षात्रबलं चोपयुज्य स्वयं वर्धमानौ राष्ट्रमपि वर्धयेते ॥२॥
Subject
अथ पुनरपि ब्राह्मणक्षत्रियविषयमाह।