Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1465

1875 Mantra
Devata- मित्रावरुणौ Rishi- यजत आत्रेयः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ता꣡ नः꣢ शक्तं꣣ पा꣡र्थि꣢वस्य म꣣हो꣢ रा꣣यो꣢ दि꣣व्य꣡स्य꣢ । म꣡हि꣢ वां क्ष꣣त्रं꣢ दे꣣वे꣡षु꣢ ॥१४६५॥

ता꣢ । नः꣣ । शक्तम् । पा꣡र्थि꣢꣯वस्य । म꣣हः꣢ । रा꣣यः꣢ । दि꣣व्य꣡स्य꣢ । म꣡हि꣢꣯ । वा꣣म् । क्षत्र꣢म् । दे꣣वे꣡षु꣢ ॥१४६५॥

Mantra without Swara
ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य । महि वां क्षत्रं देवेषु ॥

ता । नः । शक्तम् । पार्थिवस्य । महः । रायः । दिव्यस्य । महि । वाम् । क्षत्रम् । देवेषु ॥१४६५॥

Samveda - Mantra Number : 1465
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मित्रावरुणौ ब्राह्मणक्षत्रियौ ! (ता) तौ युवाम् (नः) अस्मान्(पार्थिवस्य) भौतिकस्य (दिव्यस्य) आध्यात्मिकस्य च (महः) महतः (रायः) ऐश्वर्यस्य प्राप्तये (शक्तम्) समर्थं कुरुतम्। [अत्र छान्दसो विकरणस्य लुक्।] (देवेषु) विद्वत्सु (वाम्) युवयोः (महि) महत् (क्षत्रम्) क्षतात् शत्रुजन्यात् प्रहाराद् अविद्यादुर्व्यसनादिदोषाद् वा त्राणसामर्थ्यम् विद्यते इति शेषः ॥१॥२
Essence
यत्र ब्राह्मणक्षत्रियौ समन्वितौ भूत्वा सद्विद्यासद्धर्मादिप्रदानेन शत्रुभ्यो रक्षणेन चोपकुरुतस्तद् राष्ट्रमत्युन्नतं जायते ॥१॥
Subject
तत्र प्रथमा ऋगुत्तरार्चिके ११४५ क्रमाङ्के परमात्मजीवात्मविषये व्याख्याता। अत्र ब्राह्मणक्षत्रियौ प्रार्थ्येते।