Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1464

1875 Mantra
Devata- अग्निः Rishi- शतं वैखानसाः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣢ग्न꣣ आ꣡यू꣢ꣳषि पवस꣣ आ꣢ सु꣣वो꣢र्ज꣣मि꣡षं꣢ च नः । आ꣣रे꣡ बा꣢धस्व दु꣣च्छु꣡ना꣢म् ॥१४६४॥

अ꣡ग्ने꣢꣯ । आ꣡यू꣢꣯ꣳषि । प꣣वसे । आ꣢ । सु꣣व । ऊ꣡र्ज꣢꣯म् । इ꣡ष꣢꣯म् । च꣣ । नः । आरे꣢ । बा꣣धस्व । दुच्छुना꣡म्꣢ ॥१४६४॥

Mantra without Swara
अग्न आयूꣳषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥

अग्ने । आयूꣳषि । पवसे । आ । सुव । ऊर्जम् । इषम् । च । नः । आरे । बाधस्व । दुच्छुनाम् ॥१४६४॥

Samveda - Mantra Number : 1464
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) चरित्रोन्नायक आचार्यवर ! त्वम्, शिष्याणाम् (आयूंषि) जीवनानि (पवसे) पुनासि। (नः) शिष्येभ्यः अस्मभ्यम् (ऊर्जम्) आत्मबलं चरित्रबलं वा (इषं च) अभीष्टां विद्यां च (आसुव) समन्तात् प्रेरय, प्रदेहीत्यर्थः। (दुच्छुनाम्) दुर्गतिहेतुकाम् अविद्याम् (आरे) दूरे (बाधस्व) अपगमय ॥३॥२
Essence
श्रेष्ठमाचार्यं प्राप्य विद्यार्थिनो पवित्रात्मानो विद्वांसश्च भूत्वा समावर्तनानन्तरं गृहमागत्य राष्ट्रमुन्नयन्तु ॥३॥
Subject
तृतीया ऋक् पूर्वार्चिके ६२७ क्रमाङ्के परमात्मानं विद्वांसं राजानं च सम्बोधिता। अत्राऽऽचार्य उच्यते।