Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1463

1875 Mantra
Devata- ब्रह्मणस्पतिः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
सो꣣मा꣢ना꣣ꣳ स्व꣡र꣢णं कृणु꣣हि꣡ ब्र꣢ह्मणस्पते । क꣣क्षी꣡व꣢न्तं꣣ य꣡ औ꣢शि꣣जः꣢ ॥१४६३॥

सो꣣मा꣡ना꣢म् । स्व꣡र꣢꣯णम् । कृ꣣णुहि꣢ । ब्र꣣ह्मणः । पते । कक्षी꣡व꣢न्तम् । यः । औ꣣शिजः꣢ ॥१४६३॥

Mantra without Swara
सोमानाꣳ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः ॥

सोमानाम् । स्वरणम् । कृणुहि । ब्रह्मणः । पते । कक्षीवन्तम् । यः । औशिजः ॥१४६३॥

Samveda - Mantra Number : 1463
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (ब्रह्मणः पते) वेदानां पण्डितप्रकाण्ड आचार्य ! (यः) योऽहम् (औशिजः) अतिशयेन वेदाध्ययनकामः अस्मि, तं माम्, त्वम् (सोमानाम्) ज्ञानानाम् (स्वरणम्) प्रापकम्।[स्वरतिः गतिकर्मा। निघं० २।१४।] (कक्षीवन्तम्) कटिबद्धं च (कृणुहि) कुरु ॥२॥२
Essence
गुरूणामिदं कर्तव्यं यत्ते शिष्यान् विदुषः कर्मयोगिनश्च कुर्युः। पुरुषार्थहीनं वैदुष्यमकिञ्चित्करं खलु ॥२॥
Subject
द्वितीया ऋक् पूर्वार्चिके १३९ क्रमाङ्के जगदीश्वरं सम्बोधिता। अत्राऽऽचार्य उच्यते।