Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1462

1875 Mantra
Devata- सविता Rishi- विश्वामित्रो गाथिनः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
त꣡त्स꣢वि꣣तु꣡र्व꣢꣯रेण्यं꣣ भ꣡र्गो꣢ दे꣣व꣡स्य꣢ धीमहि । धि꣢यो꣣ यो꣡ नः꣢ प्रचो꣣द꣡या꣢त् ॥१४६२॥

त꣢त् । स꣣वितुः꣢ । व꣡रे꣢꣯ण्यम् । भ꣡र्गः꣢꣯ । दे꣣व꣡स्य꣢ । धी꣣महि । धि꣡यः꣢꣯ । यः । नः꣣ । प्रचोद꣡या꣢त् । प्र꣣ । चोद꣡या꣢त् ॥१४६२॥

Mantra without Swara
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥

तत् । सवितुः । वरेण्यम् । भर्गः । देवस्य । धीमहि । धियः । यः । नः । प्रचोदयात् । प्र । चोदयात् ॥१४६२॥

Samveda - Mantra Number : 1462
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अत्र त्रयः पादाः। त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् (मनु० २।७७) इति मनूक्तदिशा प्रतिपादं पृथगर्थोऽध्यवसेयः। (सवितुः) सर्वजगदुत्पादकस्य, सर्वशुभगुणप्रेरकस्य परमात्मनः (तत्) प्रसिद्धं ज्योतिः (वरेण्यम्) वरणीयं वर्तते इति शेषः ॥ (देवस्य) दातुः प्रकाशमानस्य प्रकाशयितुश्च तस्य परमात्मनः (भर्गः) तेजः, वयम् (धीमहि) दधीमहि ध्यायेम वा ॥ (यः) सविता देवः परमेश्वरः (नः) अस्माकम् (धियः) प्रज्ञाः कर्माणि च (प्रचोदयात्) सन्मार्गे प्रेरयेत् ॥१॥२ [(सवितुः) यः सर्वं जगत् सवति सूते वा, सर्वाणि शुभगुणकर्माणि सुवति च स सविता, तस्य। षु प्रसवैश्यर्ययोः भ्वादिः, षूङ् प्राणिगर्भविमोचने अदादिः, षू प्रेरणे तुदादिः। (वरेण्यम्) वृञ् वरणे धातोः ‘वृञ एण्यः’ उ० ३।९८ इति एण्यप्रत्ययः। (देवस्य) देवो दानाद् वा दीपनाद् वा द्योतनाद् वा। निरु० ७।१५। (भर्गः३) भृजी भर्जने। ‘अञ्च्यञ्जियुजिभृजिभ्यः कुश्च।’ उ० ४।२।१७ इत्यसुन् प्रत्ययः धातोर्जकारस्य कुत्वं च। (धीमहि४) अत्र डुधाञ् धातोर्लिङि ‘छन्दस्युभयथा’ अ० ३।४।११७ इत्यार्धधातुकत्वात् शप् न आकारस्य ईत्वं च। (धियः५) धीः इति कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९। (प्रचोदयात्) प्र पूर्वः चुद प्रेरणे, लेटि ‘लेटोऽडाटौ’ अ० ३।४।९४ इत्याडागमः। ‘इतश्च लोपः परस्मैपदेषु’ अ० ३।४।९७ इति तिपः इकारस्य लोपः।]
Essence
सर्वजगत्स्रष्टुः सूर्यस्येव सर्वान्तःकरणप्रकाशकस्य सर्वान्तर्यामिनः परमेश्वरस्य तेजसां ध्यानेन धारणेन च स उपासकस्य बुद्धीः कर्माणि च सन्मार्गे प्रेरयित्वा तं सुखयति ॥१॥
Subject
तत्रादौ सवितुः परमेश्वरस्योपासनाविषयमाह।