Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1460

1875 Mantra
Devata- सरस्वान् Rishi- वसिष्ठो मैत्रावरुणिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ज꣣नी꣢यन्तो꣣ न्व꣡ग्र꣢वः पुत्री꣣य꣡न्तः꣢ सु꣣दा꣡न꣢वः । स꣡र꣢स्वन्तꣳ हवामहे ॥१४६०॥

ज꣣नीय꣡न्तः꣢ । नु । अ꣡ग्र꣢꣯वः । पु꣣त्रीय꣡न्तः꣢ । पु꣣त् । त्रीय꣡न्तः꣢ । सु꣣दा꣢न꣢वः । सु꣣ । दा꣡न꣢꣯वः । स꣡र꣢꣯स्वन्तम् । ह꣣वामहे ॥१४६०॥

Mantra without Swara
जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः । सरस्वन्तꣳ हवामहे ॥

जनीयन्तः । नु । अग्रवः । पुत्रीयन्तः । पुत् । त्रीयन्तः । सुदानवः । सु । दानवः । सरस्वन्तम् । हवामहे ॥१४६०॥

Samveda - Mantra Number : 1460
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अग्रवः) गन्तारः, पुरुषार्थिनः, (जनीयन्तः) जनिर्जाया तामिच्छन्तः, (पुत्रीयन्तः) पुत्रपुत्रीः इच्छन्तः (सुदानवः) सुदानकर्माणः गृहस्थाः वयम् (सरस्वन्तम्) आनन्दरसमयं परमात्मानम् (नु) सद्यः (हवामहे) आह्वयामः। [अग्रवः, अगि गतौ, अङ्गन्ति गच्छन्तीति अग्रवः। बाहुलकादौणादिकः उः प्रत्ययो धातोर्नलोपश्च। सुदानवः ददातीति दानुः ‘दाभाभ्यां नुः।’उ० ३।३२ इति ददातेर्नुः प्रत्ययः] ॥१॥
Essence
ब्रह्मचारिणः स्नातका भूत्वा विदुषीं सच्चरित्रां गुणवतीं कन्यां विवाह्य प्रशस्तं सन्तानमुत्पाद्य पञ्चमहायज्ञादिगृहस्थकर्तव्यान्या- चरन्तः परमात्मानमुपासीरन् ॥१॥
Subject
तत्रादौ गृहस्थकर्तव्यत्वेन परमात्मपूजामाह।