Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1459

1875 Mantra
Devata- इन्द्रः Rishi- भर्गः प्रागाथः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
प्र꣣भङ्गी꣡ शूरो꣢꣯ म꣣घ꣡वा꣢ तु꣣वी꣡म꣢घः꣣ स꣡म्मि꣢श्लो वी꣣꣬र्या꣢꣯य꣣ क꣢म् । उ꣣भा꣡ ते꣢ बा꣣हू꣡ वृष꣢꣯णा शतक्रतो꣣ नि꣡ या वज्रं꣢꣯ मिमि꣣क्ष꣡तुः꣢ ॥१४५९॥

प्रभङ्गी꣢ । प्र꣣ । भङ्गी꣢ । शू꣡रः꣢꣯ । म꣣घ꣡वा꣢ । तु꣣वी꣡म꣣घः । तु꣣वि꣢ । म꣣घः । सं꣡मि꣢꣯श्लः । सम् । मि꣣श्लः । वी꣢꣯र्याय । कम् । उ꣣भा꣢ । ते꣣ । बाहू꣡इति꣢ । वृ꣡ष꣢꣯णा । श꣣तक्रतो । शत । क्रतो । नि꣢ । या । व꣡ज्र꣢꣯म् । मि꣣मिक्ष꣡तुः꣢ ॥१४५९॥

Mantra without Swara
प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो वीर्याय कम् । उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥

प्रभङ्गी । प्र । भङ्गी । शूरः । मघवा । तुवीमघः । तुवि । मघः । संमिश्लः । सम् । मिश्लः । वीर्याय । कम् । उभा । ते । बाहूइति । वृषणा । शतक्रतो । शत । क्रतो । नि । या । वज्रम् । मिमिक्षतुः ॥१४५९॥

Samveda - Mantra Number : 1459
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र जगदीश्वर ! त्वम् (प्रभङ्गी) दुष्टानां दुर्गुणानां च प्रभञ्जकः, (शूरः) वीरः, (मघवा) ऐश्वर्यवान्, (तुवीमघः) बहुदानः, (वीर्याय) अस्मभ्यं बलप्रदानाय (कम्) किल (सम्मिश्लः) सम्मिश्लः, अस्माभिः सह सख्यस्य स्थापयिता, वर्तसे इति शेषः। हे (शतक्रतो) बहुप्रज्ञ बहुकर्मन् ! (उभा) द्वावपि (वृषणा) वृषणौ वर्षकौ वायुसूर्यौ (ते) तव (बाहू) भुजौ स्तः, (या) यौ (वज्रम्) उदकम्। [वज्रो वा आपः। श० १।१।१।१७।] (निमिक्षतुः) सिञ्चतः। [मिह सेचने अस्मात् स्वार्थे सन्। लिटि ‘अमन्त्रे’ इति निषेधात् आमभावः] ॥२॥ अत्र वर्षकयोर्वायुसूर्ययोर्बाहुत्वारोपाद् रूपकालङ्कारः ॥२॥
Essence
यथा कश्चिद् बाहुमान् मनुष्यो बाह्वोर्घटादिकं गृहीत्वा भूमौ जलं सिञ्चति तथैव जगदीश्वरो वायुसूर्यरूपयोर्बाह्वोर्मेघरूपं घटं गृहीत्वा वृष्ट्युदकं भूमौ वर्षति ॥२॥ अस्मिन् खण्डे सूर्यवर्णनद्वारा प्रत्यक्षतश्चापि परमात्मनो महिमवर्णनात् तं प्रति प्रार्थनाच्चैतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या।
Subject
अथ परमात्मनो गुणकर्माणि वर्णयति।