Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1458

1875 Mantra
Devata- इन्द्रः Rishi- भर्गः प्रागाथः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
अ꣣द्या꣢द्या꣣ श्वः꣢श्व꣣ इ꣢न्द्र꣣ त्रा꣡स्व꣢ प꣣रे꣡ च꣢ नः । वि꣡श्वा꣢ च नो जरि꣣तॄ꣡न्त्स꣢त्पते꣣ अ꣢हा꣣ दि꣣वा꣢ न꣡क्तं꣢ च रक्षिषः ॥१४५८॥

अ꣣द्या꣡द्या꣢ । अ꣣द्य꣢ । अ꣣द्य । श्वः꣡श्वः꣢꣯ । श्वः । श्वः꣣ । इ꣡न्द्र꣢꣯ । त्रा꣡स्व꣢꣯ । प꣣रे꣢ । च꣣ । नः । वि꣡श्वा꣢꣯ । च꣣ । नः । जरितॄ꣢न् । स꣣त्पते । सत् । पते । अ꣡हा꣢꣯ । अ । हा꣣ । दि꣡वा꣢꣯ । न꣡क्त꣢꣯म् । च꣣ । रक्षिषः ॥१४५८॥

Mantra without Swara
अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः । विश्वा च नो जरितॄन्त्सत्पते अहा दिवा नक्तं च रक्षिषः ॥

अद्याद्या । अद्य । अद्य । श्वःश्वः । श्वः । श्वः । इन्द्र । त्रास्व । परे । च । नः । विश्वा । च । नः । जरितॄन् । सत्पते । सत् । पते । अहा । अ । हा । दिवा । नक्तम् । च । रक्षिषः ॥१४५८॥

Samveda - Mantra Number : 1458
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) विघ्नविदारक परमात्मन् ! त्वम् (अद्य अद्य) अस्मिन् अस्मिन् अहनि (श्वः श्वः) श्वस्तने श्वस्तने अहनि, (परे च) परस्मिन् अहनि च (नः) अस्मान् (त्रास्व) त्रायस्व। [त्रैङ् पालने भ्वादिः। ‘बहुलं छन्दसि’ अ० २।४।७३ इति शपो लुक्।] हे (सत्पते) सतां पालक ! (विश्वा च अहा) विश्वानि च अहानि (जरितॄन् नः) स्तोतॄन् अस्मान् (दिवा नक्तं च) दिने रात्रौ च (रक्षिषः) रक्ष। [रक्षेर्लेटि सिपि अडागमे सिबागमे च रूपम्] ॥१॥
Essence
मनुष्याणां जीवने कुसङ्गादिना पतनस्य बहवोऽवसराः समायान्ति। परमेश्वरे दृढो विश्वासस्तत्र तान् रक्षति ॥१॥
Subject
अथ परमेश्वरं रक्षार्थं प्रार्थयते।