Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1457

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
मा꣢ नो꣣ अ꣡ज्ञा꣢ता वृ꣣ज꣡ना꣢ दुरा꣣ध्यो꣢३꣱मा꣡शि꣢वा꣣सो꣡ऽव꣢ क्रमुः । त्व꣡या꣢ व꣣यं꣢ प्र꣣व꣢तः꣣ श꣡श्व꣢तीर꣣पो꣡ऽति꣢ शूर तरामसि ॥१४५७॥

मा꣢ । नः꣢ । अ꣡ज्ञा꣢꣯ताः । अ । ज्ञा꣢ताः । वृज꣡नाः꣢ । दु꣣राध्यः꣢ । दुः꣣ । आध्यः꣢ । मा । अ꣡शि꣢꣯वासः । अ । शि꣣वासः । अ꣡व꣢꣯ । क्र꣣मुः । त्व꣡या꣢ । व꣣य꣢म् । प्र꣣व꣡तः꣢ । श꣡श्व꣢꣯तीः । अ꣣पः꣢ । अ꣡ति꣢꣯ । शू꣣र । तरामसि ॥१४५७॥

Mantra without Swara
मा नो अज्ञाता वृजना दुराध्यो३माशिवासोऽव क्रमुः । त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥

मा । नः । अज्ञाताः । अ । ज्ञाताः । वृजनाः । दुराध्यः । दुः । आध्यः । मा । अशिवासः । अ । शिवासः । अव । क्रमुः । त्वया । वयम् । प्रवतः । शश्वतीः । अपः । अति । शूर । तरामसि ॥१४५७॥

Samveda - Mantra Number : 1457
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) जगदीश ! (मा) नैव (अज्ञाताः) अपरिचिताः (वृजनाः२) बलवन्तो योद्धारो वा। [‘मध्योदात्तं तु वृजनं वर्तते बलयुद्धयोः’ इति वेङ्कटमाधवः३। पुंसि चायमन्तर्णीतमत्वर्थः। ‘कॄपॄवृजिमन्दिनिधाञः क्युः।’ उ० २।८२ इत्यनेन वृजी वर्जने धातोः क्युः प्रत्ययः।] (दुराध्यः) दुरभिसन्धयः शत्रवः, (मा) नैव च अशिवासः अभ्रद्राः परिचिताः जनाः (नः) अस्मान् (अवक्रमुः) आक्राम्येयुः। [अवपूर्वः क्रमु पादविक्षेपे, लिङ्, ‘बहुलं छन्दसि।’ अ० २।४।७३ इति शपो लुक्।] हे (शूर) वीर जगदीश्वर ! (त्वया) तव साहाय्येन (प्रवतः) प्रकृष्टाचरणाः। [प्रोपसर्गात् ‘उपसर्गाच्छन्दसि’ धात्वर्थे।’ अ० ५।१।११८ इत्यनेन वतिः प्रत्ययः।] (वयम्) तवोपासकाः (शश्वतीः) बह्वीः (अपः) नदीः, नदीवत् उद्वेल्लतीः बाधाः इत्यर्थः (अति तरामसि) पारयेम ॥२॥४
Essence
यथा शत्रवस्तथैव सम्बन्धिजना अपि कदाचित् पापादिकर्मणि लिम्पन्ति, विघ्नाश्चापि धर्ममार्गे बाधका जायन्ते। परमेश्वराद् बलं प्राप्य तान् सर्वान् वयमुल्लङ्घेमहि ॥२॥
Subject
अथ पुनरपि परमात्मा प्रार्थ्यते।