Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1456

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
इ꣡न्द्र꣣ क्र꣡तुं꣢ न꣣ आ꣡ भ꣢र पि꣣ता꣢ पु꣣त्रे꣢भ्यो꣣ य꣡था꣢ । शि꣡क्षा꣢ णो अ꣣स्मि꣡न्पु꣢रुहूत꣣ या꣡म꣢नि जी꣣वा꣡ ज्योति꣢꣯रशीमहि ॥१४५६॥

इ꣡न्द्र꣢꣯ । क्र꣡तु꣢꣯म् । नः꣣ । आ꣢ । भ꣣र । पिता꣢ । पु꣣त्रे꣡भ्यः꣢ । पु꣣त् । त्रे꣡भ्यः꣢꣯ । य꣡था꣢꣯ । शि꣡क्ष꣢꣯ । नः꣣ । अस्मि꣢न् । पु꣣रुहूत । पुरु । हूत । या꣡म꣢꣯नि । जी꣣वाः꣢ । ज्यो꣡तिः꣢꣯ । अ꣣शीमहि ॥१४५६॥

Mantra without Swara
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥

इन्द्र । क्रतुम् । नः । आ । भर । पिता । पुत्रेभ्यः । पुत् । त्रेभ्यः । यथा । शिक्ष । नः । अस्मिन् । पुरुहूत । पुरु । हूत । यामनि । जीवाः । ज्योतिः । अशीमहि ॥१४५६॥

Samveda - Mantra Number : 1456
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) विघ्नविहन्तः सर्वविद्य सर्वकारिन् सर्वशक्तिमन् परमात्मन् ! त्वम् (नः) अस्मभ्यम् (क्रतुम्) प्रज्ञां कर्म च (आ भर) आहर, (यथा) येन प्रकारेण (पिता) जनकः (पुत्रेभ्यः) सन्तानेभ्यः क्रतुं प्रज्ञां कर्म च आहरति। हे (पुरुहूत) बहुभिराहूत जगदीश्वर ! त्वम् (अस्मिन् यामनि) एतस्मिन् संसारमार्गे (नः) अस्मान् (शिक्ष) कर्तव्याकर्तव्यं बोधय। (जीवाः) जीवनेनानुप्राणिताः वयम्, त्वत्सकाशात् (ज्योतिः) दिव्यं प्रकाशम् (अशीमहि) प्राप्नुयाम ॥१॥२ अत्रोपमालङ्कारः ॥१॥
Essence
यथा माता पिताऽऽचार्यश्च मनुष्यस्य शिक्षकाः सन्ति तथा परमेश्वरोऽपि। सोऽन्तरात्मं प्रविष्टः सदैव सत्यासत्ये उपदिशति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २५९ क्रमाङ्के परमात्मानमाचार्यं नृपतिं च सम्बोधिता। अत्र परमात्मानं प्रार्थयते।