Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1454

1875 Mantra
Devata- सूर्यः Rishi- विभ्राट् सौर्यः Chhand- जगती Swara- निषादः
Mantra with Swara
वि꣣भ्रा꣢ड् बृ꣣ह꣡त्सुभृ꣢꣯तं वाज꣣सा꣡त꣢मं꣣ ध꣡र्मं꣢ दि꣣वो꣢ ध꣣रु꣡णे꣢ स꣣त्य꣡मर्पि꣢꣯तम् । अ꣣मित्रहा꣡ वृ꣢त्र꣣हा꣡ द꣢स्यु꣣ह꣡न्त꣢मं꣣ ज्यो꣡ति꣢र्जज्ञे असुर꣣हा꣡ स꣢पत्न꣣हा꣢ ॥१४५४॥

वि꣣भ्रा꣢ट् । वि꣣ । भ्रा꣢ट् । बृ꣣ह꣢त् । सु꣡भृ꣢꣯तम् । सु । भृ꣣तम् । वाजसा꣡त꣢मम् । वा꣣ज । सा꣡त꣢꣯मम् । ध꣡र्म꣢꣯न् । दि꣣वः꣢ । ध꣣रु꣡णे꣢ । स꣣त्य꣢म् । अ꣡र्पि꣢꣯तम् । अ꣣मित्रहा꣢ । अ꣣मित्र । हा꣢ । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । द꣣स्युह꣡न्त꣢मम् । द꣣स्यु । ह꣡न्त꣢꣯मम् । ज्यो꣡तिः꣢꣯ । ज꣣ज्ञे । असुरहा꣢ । अ꣣सुर । हा꣢ । स꣣पत्नहा꣢ । स꣣पत्न । हा꣢ ॥१४५४॥

Mantra without Swara
विभ्राड् बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितम् । अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥

विभ्राट् । वि । भ्राट् । बृहत् । सुभृतम् । सु । भृतम् । वाजसातमम् । वाज । सातमम् । धर्मन् । दिवः । धरुणे । सत्यम् । अर्पितम् । अमित्रहा । अमित्र । हा । वृत्रहा । वृत्र । हा । दस्युहन्तमम् । दस्यु । हन्तमम् । ज्योतिः । जज्ञे । असुरहा । असुर । हा । सपत्नहा । सपत्न । हा ॥१४५४॥

Samveda - Mantra Number : 1454
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
पश्यत, (विभ्राट्) विभ्राजमानम् (बृहत्) विशालम्, (सुभृतम्) सुपुष्टम्, (वाजसातमम्) अन्नस्य बलस्य वा दातृतमम्, (सत्यम्) सत्यनियमम्, (धर्मन्) धर्मणि ग्रहोपग्रहाणां धारके (दिवः धरुणे) द्युलोकस्य स्तम्भे सूर्ये (अर्पितम्) निक्षिप्तम् (अमित्रहा) अमित्राणां रोगादीनां हन्तृ, (वृत्रहा) वृत्रस्य अन्धकारस्य हन्तृ, (दस्युहन्तमम्) दस्यूनां परपदार्थापहर्तॄणां तस्करादीनाम् अपगमयितृतमम्, (असुरहा) अप्रशस्तानां दुर्भिक्षादीनां हन्तृ, (सपत्नहा) सपत्नानां सहपतनशीलानां रोगकृमीणां हन्तृ, (ज्योतिः) सौरं तेजः (जज्ञे) प्रादुर्भवति ॥२॥ अत्र स्वभावोक्तिरलङ्कारः। ‘हा’ इत्यस्य चतुः प्रयोगाद् वृत्त्यनुप्रासः, ‘तमं’ ‘त्रहा’ इत्यनयोर्द्विरुक्तेश्च छेकः ॥२॥
Essence
रात्रेरन्धतमसं विध्वंसयत् सूर्यज्योतिः परमात्मभासं प्रति संकेतयति ॥२॥
Subject
अथ सूर्यस्य ज्योतिरुपवर्ण्य परमात्ममहिमानं प्रकाशयति।