Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1452

1875 Mantra
Devata- इन्द्रः Rishi- सुकक्ष आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣢ न꣣ इ꣡न्द्रः꣢ शि꣣वः꣡ सखाश्वा꣢꣯व꣣द्गो꣢म꣣द्य꣡व꣢मत् । उ꣣रु꣡धा꣢रेव दोहते ॥१४५२॥

सः꣢ । नः꣣ । इन्द्रः । शि꣡वः꣢꣯ । स꣡खा꣢꣯ । स । खा꣣ । अ꣡श्वा꣢꣯वत् । गो꣡म꣢꣯त् । य꣡व꣢꣯मत् । उ꣣रु꣡धा꣢रा । उ꣣रु꣢ । धा꣣रा । इव । दोहते ॥१४५२॥

Mantra without Swara
स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् । उरुधारेव दोहते ॥

सः । नः । इन्द्रः । शिवः । सखा । स । खा । अश्वावत् । गोमत् । यवमत् । उरुधारा । उरु । धारा । इव । दोहते ॥१४५२॥

Samveda - Mantra Number : 1452
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सः) असौ (नः) अस्माकम् (शिवः) मङ्गलकरः (सखा) सुहृत् (इन्द्रः) वीरो राजा (अश्वावत्) अश्वयुक्तम्, (गोमत्) गोयुक्तम्, (यवमत्) यवाद्यन्नयुक्तं धनम् (दोहते) अस्मभ्यं दुह्यात्। कथमिव ? (उरुधारा इव) विस्तीर्णधारा धेनुर्यथा क्षीरं प्रयच्छति तद्वत् ॥३॥ अत्रोपमालङ्कारः ॥३॥
Essence
स एव राजा भवितुमर्हति यः प्रजाजनान् धनधान्यगवाश्वादिभिः सम्पद्भिः समृद्धान् कुर्यात्, यतः समृद्धा एव जना अध्यात्ममार्गमीहन्ते ॥३॥ अस्मिन् खण्डे परमात्मोपासनाविषयस्य नृपनीतेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्बोध्या ॥
Subject
अथ राजा प्रजाभ्यः किं कुर्यादित्याह।