Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1450

1875 Mantra
Devata- इन्द्रः Rishi- सुकक्ष आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣢꣯द्घेद꣣भि꣢ श्रु꣣ता꣡म꣢घं वृष꣣भं꣡ नर्या꣢꣯पसम् । अ꣡स्ता꣢रमेषि सूर्य ॥१४५०॥

उ꣢त् । घ꣣ । इ꣢त् । अ꣣भि꣢ । श्रु꣣ता꣡म꣢घम् । श्रु꣣त꣢ । म꣣घम् । वृषभ꣢म् । न꣡र्या꣢꣯पसम् । न꣡र्य꣢꣯ । अ꣣पसम् । अ꣡स्ता꣢꣯रम् । ए꣣षि । सूर्य ॥१४५०॥

Mantra without Swara
उद्घेदभि श्रुतामघं वृषभं नर्यापसम् । अस्तारमेषि सूर्य ॥

उत् । घ । इत् । अभि । श्रुतामघम् । श्रुत । मघम् । वृषभम् । नर्यापसम् । नर्य । अपसम् । अस्तारम् । एषि । सूर्य ॥१४५०॥

Samveda - Mantra Number : 1450
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सूर्य) सूर्य इव प्रतापिन् वीर ! त्वम् (श्रुतामघम्) प्रख्यातधनम्, (वृषभम्) नर्यापसम् नरहितकर्माणम्, (अस्तारम्) दुःखदुर्गुण- दुर्व्यसनादीनां दूरं प्रक्षेप्तारं प्रजाजनम् (घ इत्) एव (अभि) अभिलक्ष्य (उदेषि) नृपतित्वेन राष्ट्रगगने उद्गच्छसि ॥१॥
Essence
यस्य राज्ये सुयोग्याः प्रजाः सन्ति स एव राजा सुयोग्यो मन्यते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १२५ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र परमात्मप्रचारोऽप्युन्नत एव राष्ट्रे भवितुं शक्यमिति राष्ट्रोन्नत्यर्थं नृपतिविषय उच्यते।