Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 145

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः आङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣡पा꣢दु शि꣣प्र्य꣡न्ध꣢सः सु꣣द꣡क्ष꣢स्य प्रहो꣣षि꣡णः꣢ । इ꣢न्द्रो꣣रि꣢न्द्रो꣣ य꣡वा꣢शिरः ॥१४५॥

अ꣡पा꣢꣯त् । उ꣣ । शिप्री꣢ । अ꣡न्ध꣢꣯सः । सु꣣द꣡क्ष꣢स्य । सु꣣ । द꣡क्ष꣢꣯स्य । प्र꣣होषि꣡णः꣢ । प्र꣣ । होषि꣡णः꣢ । इ꣢न्दोः꣢꣯ । इन्द्रः꣢꣯ । य꣡वा꣢꣯शिरः । य꣡व꣢꣯ । आ꣣शिरः ॥१४५॥

Mantra without Swara
अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः । इन्द्रोरिन्द्रो यवाशिरः ॥

अपात् । उ । शिप्री । अन्धसः । सुदक्षस्य । सु । दक्षस्य । प्रहोषिणः । प्र । होषिणः । इन्दोः । इन्द्रः । यवाशिरः । यव । आशिरः ॥१४५॥

Samveda - Mantra Number : 145
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 1;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। (शिप्री) सृप्री सर्वव्यापकः। यथाह निरुक्तकारः—सृप्रः सर्पणात्, सुशिप्रम् एतेन व्याख्यातम् इति। निरु० ६।१७। (इन्द्रः) परमेश्वरः (सुदक्षस्य) सुप्रवीणस्य (प्रहोषिणः२) प्रकर्षेण आत्मसमर्पणरूपं हविः जुह्वतः (इन्दोः) चन्द्रवत् सौम्यस्य उपासकस्य (यवाशिरः) यवैः यवैरिव सात्त्विकैः ज्ञानैः कर्मभिश्च आशीः आश्रपणं पाकः यस्य तस्य, ज्ञानैः कर्मभिश्च सह परिपक्वस्य। आशीः आश्रयणाद् वा आश्रपणाद् वा इति निरुक्तम्। ६।८। अत्र अपस्पृधेथामानृचु० अ० ६।१।३६ इति आङ्पूर्वस्य श्रिञ् सेवायाम्, श्रीञ् पाके वा धातोः क्विप् शिरादेशो निपात्यते। (अन्धसः) भक्तिरूपस्य सोमस्य (अपात् उ) पानं करोति खलु, ज्ञानकर्मपूर्विकां भक्तिं स्वीकरोतीत्यर्थः ॥ अथ द्वितीयः-—राजपरः। (शिप्री) राजमुकुटधारी। शिप्राः शीर्षसु। ऋ० ५।५४।११ इति वचनात् शिप्राः शिरस्सु धारणीयाः उष्णीषमुकुटादयः। (इन्द्रः) सम्राट् (सुदक्षस्य) सुसमृद्धस्य (प्रहोषिणः) कररूपेण राजदेयभागं करविभागे प्रयच्छतः (इन्दोः) राष्ट्रसेचकस्य प्रजाजनस्य। उनत्ति राष्ट्रं क्लेदयति सिञ्चतीति इन्दुः। इन्दुः इन्धेः उनत्तेर्वा इति निरुक्तम्। १०।४०। (यवाशिरः) यवैः यवगोधूमतिलतण्डुलमुद्गमाषादिभिः आश्रितस्य सहितस्य (अन्धसः) अन्नस्य, अन्नवाचकः अन्धःशब्दः सर्वेषां भोग्यवस्तूनामुपलक्षणम्, खाद्यपेयपरिधानसुवर्णरजतमुद्रादिरूपस्य करस्य (अपात् उ) पानं ग्रहणं करोति खलु ॥ अथ तृतीयः—सूर्यपरः। (शिप्री) शिप्रयः क्षिप्रगामिनः किरणाः अस्य सन्तीति शिप्री किरणवान्। शिपयोऽत्र रश्मय उच्यन्ते इति निरुक्तम्। ५।८। रेफागमश्छान्दसः। (इन्द्रः) सूर्यः (सुदक्षस्य) सुसमृद्धस्य (प्रहोषिणः) स्वकीयं जलरूपं हविः जुह्वतः भूमण्डलस्य (यवाशिरः) यवेन संयोगविभागकर्त्रा तापेन आशीः आश्रपणं वाष्पीभवनं यस्य स यवाशीः तस्य। यवः इत्यत्र यु मिश्रणामिश्रणयोः इति धातुर्बोध्यः। (अन्धसः) भोज्यरूपस्य (इन्दोः) जलस्य। इन्दुः उदकनाम। निघं० १।१२। (अपात् उ) पानं करोति खलु ॥१॥ अत्र श्लेषालङ्कारः ॥१॥
Essence
यथा राजा प्रजाजनानां करोपहारं सूर्यश्च भूमण्डलस्य जलोपहारं तथैव जगदीश्वरः उपासकानां ज्ञानकर्ममयं भक्तिरसोपहारं प्रेम्णा स्वीकरोति ॥१॥ एतन्मन्त्रव्याख्याने सायणाचार्येण सुदक्षस्य एतन्नामकस्य ऋषेः इति यत्प्रोक्तं तदितरभाष्यकारविरुद्धत्वेनैवापास्तम्। सुदक्षस्य सुष्ठु उत्सादितस्य इति विवरणकारः, सुबलस्य इति भरतस्वामी। एतद्विधानां प्रसिद्धार्थकानां शब्दानां नामत्वकल्पने वेदानां सर्वाण्येव सुबन्तपदानि कस्यापि ऋषे राज्ञो वा नामतां प्रपद्येरन्।
Subject
अथ द्वितीये प्रपाठके द्वितीयोऽर्धः अथाद्ये मन्त्रे इन्द्रः समर्पकस्य सोमरसं स्वीकरोतीत्याह।
Footnote
१. ऋ० ८।९२।४ ऋषिः श्रुतकक्षः सुकक्षो वा। २. प्रहोषिणः, जुहोतेर्दानार्थस्येदं रूपम्—इति वि०। स्तुतिमतः—इति भ०। प्रकर्षेण देवान् हविर्भिर्जुह्वतः—इति सा०।