Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1446

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
न꣢म꣣से꣡दुप꣢꣯ सीदत द꣣ध्ने꣢द꣣भि꣡ श्री꣢णीतन । इ꣢न्दु꣣मि꣡न्द्रे꣢ दधातन ॥१४४६॥

न꣡म꣢꣯सा । इत् । उ꣡प꣢꣯ । सीदत । दध्ना꣢ । इत् । अ꣣भि꣢ । श्री꣣णीतन । श्री꣣णीत । न । इ꣡न्दु꣢꣯म् । इ꣡न्द्रे꣢꣯ । द꣣धातन । दधात । न ॥१४४६॥

Mantra without Swara
नमसेदुप सीदत दध्नेदभि श्रीणीतन । इन्दुमिन्द्रे दधातन ॥

नमसा । इत् । उप । सीदत । दध्ना । इत् । अभि । श्रीणीतन । श्रीणीत । न । इन्दुम् । इन्द्रे । दधातन । दधात । न ॥१४४६॥

Samveda - Mantra Number : 1446
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! यूयम् (नमसा इत्) नमस्कारेणैव सह (उप सीदत) परमात्मानम् उपाध्वम्। तं सात्त्विकं नमस्कारम् (दध्ना इत्) रजोगुणोत्पन्नेन कर्मणा खलु (अभिश्रीणीतन) परिपक्वं कुरुत। [अभिपूर्वः श्रीञ् पाके क्र्यादिः। तस्य तनबादेशः।] (इन्दुम्) परमात्मनः सकाशात् प्रस्रुतम् आनन्दरसम् (इन्द्रे) जीवात्मनि (दधातन) धत्त ॥३॥ अत्रैकेन कर्तृकारकेण उपसीदत, श्रीणीतन, दधातन इत्यनेकक्रियायोगाद् दीपकालङ्कारः, दकारद्यनुप्रासश्च। गोदुग्धं सात्त्विकं, दधि चाम्लगुणत्वाद् राजसम्, अतो दध्ना कर्म व्यज्यते ॥३॥
Essence
केवलमुपासनया नाभीष्टसिद्धिर्जायते, तया सह कर्मयोगोऽप्यपेक्ष्यते ॥३॥
Subject
अथ पुनरपि मानवाः प्रेर्यन्ते।