Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1445

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ह꣡स्त꣢च्युतेभि꣣र꣡द्रि꣢भिः सु꣣त꣡ꣳ सोमं꣢꣯ पुनीतन । म꣢धा꣣वा꣡ धा꣢वता꣣ म꣡धु꣢ ॥१४४५॥

ह꣡स्त꣢꣯च्युतेभिः । ह꣡स्त꣢꣯ । च्यु꣣तेभिः । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । सुत꣢म् । सो꣡म꣢꣯म् । पु꣣नीतन । पुनीत । न । म꣡धौ꣢꣯ । आ । धा꣣वत । म꣡धु꣢꣯ ॥१४४५॥

Mantra without Swara
हस्तच्युतेभिरद्रिभिः सुतꣳ सोमं पुनीतन । मधावा धावता मधु ॥

हस्तच्युतेभिः । हस्त । च्युतेभिः । अद्रिभिः । अ । द्रिभिः । सुतम् । सोमम् । पुनीतन । पुनीत । न । मधौ । आ । धावत । मधु ॥१४४५॥

Samveda - Mantra Number : 1445
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे उपासकाः ! (हस्तच्युतेभिः) हस्तरहितैः (अद्रिभिः) हृदयमस्तिष्करूपैः पेषणसाधनैः (सुतम्) अभिषुतम् (सोमम्) श्रद्धारसम् (पुनीतन) पवित्रयत। (मधौ) मधुरे स्वकीये श्रद्धारसे (मधु) परमात्मनः सकाशात् प्राप्तं मधुरम् आनन्दरसम् (आधावत) आगमयत, मिश्रयतेत्यर्थः। [धावु गतिशुद्ध्योः] ॥२॥ ‘मधा, मधु’, ‘धावा, धाव’ इत्यत्र छेकानुप्रासोऽलङ्कारः ॥२॥
Essence
यदा योगिभिर्ब्रह्मानन्दरसोऽनुभूयते तदैव तेषां परब्रह्मणि श्रद्धा सफला जायते ॥२॥
Subject
अथ पुनरपि मानवान् प्रेरयति।