Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1443

1875 Mantra
Devata- इन्द्रः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- बृहती Swara- मध्यमः
Mantra with Swara
अ꣣स्मा꣡अ꣢स्मा꣣ इद꣢꣫न्ध꣣सो꣡ऽध्व꣢र्यो꣣ प्र꣡ भ꣢रा सु꣣त꣢म् । कु꣣वि꣡त्स꣢मस्य꣣ जे꣡न्य꣢स्य꣣ श꣡र्ध꣢तो꣣ऽभि꣡श꣢स्तेरव꣣स्व꣡र꣢त् ॥१४४३॥

अ꣣स्मै꣢ । अ꣣स्मै । इ꣢त् । अ꣡न्ध꣢꣯सः । अ꣡ध्य꣢꣯र्यो । प्र । भ꣣र । सुत꣢म् । कु꣣वि꣢त् । स꣣मस्य । जे꣡न्य꣢꣯स्य । श꣡र्ध꣢꣯तः । अ꣣भि꣡श꣢स्तेः । अ꣣भि꣢ । श꣣स्तेः । अवस्व꣡र꣢त् । अ꣣व । स्व꣡र꣢꣯त् ॥१४४३॥

Mantra without Swara
अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् । कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् ॥

अस्मै । अस्मै । इत् । अन्धसः । अध्यर्यो । प्र । भर । सुतम् । कुवित् । समस्य । जेन्यस्य । शर्धतः । अभिशस्तेः । अभि । शस्तेः । अवस्वरत् । अव । स्वरत् ॥१४४३॥

Samveda - Mantra Number : 1443
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अध्वर्यो) उपासनायज्ञेच्छुक ! (अस्मै अस्मै इत्) अस्मै एव इन्द्राय जगदीश्वराय (अन्धसः) श्रद्धारूपस्य सोमस्य(सुतम्) रसम् (प्र भर) आनय। स च इन्द्रो जगदीश्वरः (कुवित्२) बहुशः। [कुवित् इति बहुनाम। निघं० ३।१।] (समस्य) सर्वस्य (जेन्यस्य) जेतुं योग्यस्य (शर्धतः) हिंसकस्य शत्रोः (अभिशस्तेः) हिंसनात् निन्दनात् वा (अवस्वरत्) उद्धरेत्। [स्वरतिः गतिकर्मा। निघं० २।१४।] ॥४॥३
Essence
परमेश्वरे श्रद्दधानं जनं कोऽपि हिंसितुमपकीर्त्या योजयितुं वा न शक्नोति ॥४॥ अस्मिन् खण्डे परमात्मोपासनाविषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
Subject
अथ पुनः परमात्मोपासनाविषयमाह।