Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1441

1875 Mantra
Devata- इन्द्रः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
ए꣡मे꣢नं प्र꣣त्ये꣡त꣢न꣣ सो꣡मे꣢भिः सोम꣣पा꣡त꣢मम् । अ꣡म꣢त्रेभिरृजी꣣षि꣢ण꣣मि꣡न्द्र꣢ꣳ सु꣣ते꣢भि꣣रि꣡न्दु꣢भिः ॥१४४१॥

आ । ई꣣म् । एनम् । प्रत्ये꣡त꣢न । प्र꣣ति । ए꣡त꣢꣯न । सो꣡मे꣢꣯भिः । सो꣣मपा꣡त꣢꣯मम् । सो꣣म । पा꣡त꣢꣯मम् । अ꣡म꣢꣯त्रेभिः । ऋ꣣जीषि꣡ण꣢म् । इ꣡न्द्र꣢꣯म् । सु꣣ते꣡भिः꣢ । इ꣡न्दु꣢꣯भिः ॥१४४१॥

Mantra without Swara
एमेनं प्रत्येतन सोमेभिः सोमपातमम् । अमत्रेभिरृजीषिणमिन्द्रꣳ सुतेभिरिन्दुभिः ॥

आ । ईम् । एनम् । प्रत्येतन । प्रति । एतन । सोमेभिः । सोमपातमम् । सोम । पातमम् । अमत्रेभिः । ऋजीषिणम् । इन्द्रम् । सुतेभिः । इन्दुभिः ॥१४४१॥

Samveda - Mantra Number : 1441
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्याः ! यूयम् (सोमपातमम्) युष्माकं श्रद्धारसानाम् अतिशयेन पातारम् (एनं प्रति) एतं परमात्मानं प्रति (ईम्)सर्वतः (सोमेभिः) श्रद्धारसैः सह (एतन) प्राप्नुत। (ऋजीषिणम्) ऋजून् सरलान् धार्मिकान् जनान् ईषितुं गन्तुं शीलं यस्य तम् (इन्द्रम् प्रति) जगदीश्वरम् अभिलक्ष्य (अमत्रेभिः) महद्भिः। [अमत्रोऽमात्रो महान् भवति अभ्यमितो वा। निरु० ६।२३।] (सुतेभिः) अभिषुतैः (इन्दुभिः) आर्द्रीकुर्वद्भिः श्रद्धारसैः (एतन)गच्छत ॥२॥२
Essence
परमात्मानं प्रति हार्दिकस्य श्रद्धारसस्य प्रवाहेण मनुष्यस्य जीवनमुज्ज्वलं जायते ॥२॥
Subject
अथ जनान् परमात्मोपासनायै प्रेरयति।