Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1440

1875 Mantra
Devata- इन्द्रः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
प्र꣡त्य꣢स्मै꣣ पि꣡पी꣢षते꣣ वि꣡श्वा꣢नि वि꣣दु꣡षे꣢ भर । अ꣣रङ्गमा꣢य꣣ ज꣢ग्म꣣ये꣡ऽप꣢श्चादध्वने꣣ न꣡रः꣢ ॥१४४०॥

प्र꣡ति꣢꣯ । अ꣣स्मै । पि꣡पी꣢꣯षते । वि꣡श्वा꣢꣯नि । वि꣣दु꣡षे꣢ । भ꣣र । अरङ्गमा꣡य꣢ । अ꣣रम् । ग꣡मा꣢य । ज꣡ग्म꣢꣯ये । अ꣡प꣢꣯श्चादध्वने । अ꣡प꣢꣯श्चा । द꣣ध्वने । न꣡रः꣢꣯ ॥१४४०॥

Mantra without Swara
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥

प्रति । अस्मै । पिपीषते । विश्वानि । विदुषे । भर । अरङ्गमाय । अरम् । गमाय । जग्मये । अपश्चादध्वने । अपश्चा । दध्वने । नरः ॥१४४०॥

Samveda - Mantra Number : 1440
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मानव ! (नरः) पुरुषार्थी त्वम् (पिपीषते) तव श्रद्धारसं पातुमिच्छते, (विश्वानि विदुषे) सर्वाणि ज्ञेयानि जानते, (अरङ्गमाय) पर्याप्तप्रदायिने। [अरं पर्याप्तं गमयति प्रापयतीति अरङ्गमः तस्मै।] (जग्मये) क्रियाशीलाय। [अत्र ‘आदृगमहनजनः किकिनौ लिट् च’ अ० ३।२।१७१ इति गम्लृ गतौ धातोः किन् प्रत्ययः, तस्य च लिड्वद्भावाद् द्वित्वम्।] (अपश्चा-दध्वने) अपश्चाद्गामिने [दध्यति गतिकर्मा, निरु० २।१४, वनिप्।] (अस्मै) एतस्मै इन्द्राय जगदीश्वराय (प्रतिभर)श्रद्धायाः उपहारं प्रयच्छ ॥१॥२
Essence
परमात्मनि श्रद्दधानो मनुष्यः कदापि जीवने पतनं न प्राप्नोति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३५२ क्रमाङ्के परमात्मन आचार्यस्य च विषये व्याख्याता। अत्र जगदीश्वरोपासनाविषयः प्रदर्श्यते।