Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 144

1875 Mantra
Devata- इन्द्रः Rishi- इरिम्बिठिः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
प्र꣢ स꣣म्रा꣡जं꣢ चर्षणी꣣ना꣡मिन्द्र꣢꣯ꣳ स्तोता꣣ न꣡व्यं꣢ गी꣣र्भिः꣢ । न꣡रं꣢ नृ꣣षा꣢हं꣣ म꣡ꣳहि꣢ष्ठम् ॥१४४॥

प्र꣢ । स꣣म्रा꣡ज꣢म् । स꣣म् । रा꣡ज꣢꣯म् । च꣣र्षणी꣣ना꣢म् । इ꣡न्द्र꣢꣯म् । स्तो꣣त । न꣡व्य꣢꣯म् । गी꣣र्भिः꣢ । न꣡र꣢꣯म् । नृ꣣षा꣡ह꣢म् । नृ꣣ । सा꣡ह꣢꣯म् । मँ꣡हि꣢꣯ष्ठम् ॥१४४॥

Mantra without Swara
प्र सम्राजं चर्षणीनामिन्द्रꣳ स्तोता नव्यं गीर्भिः । नरं नृषाहं मꣳहिष्ठम् ॥

प्र । सम्राजम् । सम् । राजम् । चर्षणीनाम् । इन्द्रम् । स्तोत । नव्यम् । गीर्भिः । नरम् । नृषाहम् । नृ । साहम् । मँहिष्ठम् ॥१४४॥

Samveda - Mantra Number : 144
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 1; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे भ्रातरः ! यूयम् (चर्षणीनाम्) मनुष्याणाम्। चर्षणय इति मनुष्यनामसु पठितम्। निघं० २।३। (सम्राजम्) अधीश्वरम्, (नव्यम्) नूतनम्, स्तोतुमर्हं वा। अत्र नवसूरमर्तयविष्ठेभ्यो यत्।’ अ० ५।४।२५ वा० इति नवशब्दाद् स्वार्थे यत्। नव्यम् इति (नवनाम)। निघं० ३।२८। यद्वा, णु स्तुतौ धातोर्यत्। ‘यतोऽनावः।’ अ० ६।१।२१३ इत्याद्युदात्तत्वम्। (नरम्) नेतारम्, पौरुषवन्तम्। नृणाति नयतीति नरः। (नॄ) नये क्र्यादिः। (नृषाहम्) नॄन् दुष्टजनान् सहते पराभवतीति नृषाट्, तम्। नृ पूर्वात् षह मर्षणे धातोः छन्दसि सहः।’ अ० ३।२।६३ इति ण्विः। (मंहिष्ठम्) दातृतमम्। मंहते दानकर्मा। निघं० ३।२०, ततस्तृचि मंहिता। अतिशयेन मंहिता मंहिष्ठः। तुश्छन्दसि। ५।३।५९ इति इष्ठनि तुरिष्ठेमेयस्सु।’ अ० ६।४।१५४ इति तृचो लोपः। (इन्द्रम्) वीरं परमात्मानं नृपतिं वा (गीर्भिः) वेदवाग्भिः, स्ववाग्भिर्वा (प्र स्तोत) प्रकृष्टतया स्तुवध्वम् गुणवर्णनेन कीर्तयत। प्र पूर्वात् ष्टुञ् स्तुतौ धातोः लोटि प्रस्तुत इति प्राप्ते तप्तनप्तनथनाश्च। अ० ७।१।४५ इति तस्य तबादेशः, तस्य च पित्त्वेन ङित्वाभावाद् गुणनिषेधो न ॥१०॥ अत्र अर्थश्लेषालेङ्कारः ॥१०॥
Essence
मनुष्यैः परमात्मनो नृपतेश्च धवला कीर्तिर्गातव्या तद्गुणाश्च स्वजीवने धारणीयाः। अत्रेन्द्रस्य सहायानां मरुतां वर्णनपूर्वकं तन्महत्त्वप्रतिपादनाद्, ब्रह्मणस्पति-वृत्रह-सवितृ-शक्रनामभि- स्तत्स्तवनात्, ततो दुःष्वप्नविनाशप्रार्थनात्, तत्स्तुत्यर्थं प्रेरणाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिर्वेद्या ॥ इति द्वितीये प्रपाठके प्रथमार्धे पञ्चमी दशतिः॥ इति द्वितीयाध्याये तृतीयः खण्डः ॥
Subject
अथ मनुष्यान् परमात्मानं नृपतिं च स्तोतुं प्रेरयति।
Footnote
१. ऋ० ८।१६।१, अथ० २०।४४।१