Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1439

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢मानो असिष्यद꣣द्र꣡क्षा꣢ꣳस्यप꣣ज꣡ङ्घ꣢नत् । प्र꣣त्नव꣢द्रो꣣च꣢य꣣न्रु꣡चः꣢ ॥१४३९॥

प꣡व꣢꣯मानः । अ꣣सिष्यदत् । र꣡क्षा꣢꣯ꣳसि । अ꣣पज꣡ङ्घ꣢नत् । अ꣣प । ज꣡ङ्घ꣢꣯नत् । प्र꣣त्नव꣢त् । रो꣣च꣡यन् । रु꣡चः꣢꣯ ॥१४३९॥

Mantra without Swara
पवमानो असिष्यदद्रक्षाꣳस्यपजङ्घनत् । प्रत्नवद्रोचयन्रुचः ॥

पवमानः । असिष्यदत् । रक्षाꣳसि । अपजङ्घनत् । अप । जङ्घनत् । प्रत्नवत् । रोचयन् । रुचः ॥१४३९॥

Samveda - Mantra Number : 1439
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पवमानः) पवित्रतादायकः आनन्दस्रावी जगदीश्वरः (रक्षांसि) कामक्रोधादीन् रिपून् पापानि च अपजङ्घनत् हिंसन्, (प्रत्नवत्) पुरातनाऽग्निवत्। [प्रत्नो होता वरेण्यः। ऋ० २।७।६ इत्यादिप्रामाण्याद् अग्निः प्रत्नः।] (रुचः) तेजांसि (रोचयन्) प्रदीपयन् (असिष्यदत्) प्रस्यन्दते ॥५॥ अत्रोपमालङ्कारः ॥५॥
Essence
परमेश्वरकृपयोपासकस्यान्तःकरणाद् वासनाः क्षीयन्ते तेजांसि दीप्यन्ते हृदयं च निष्कलुषं पवित्रं जायते ॥५॥
Subject
अथोपासितो जगदीश्वरः किं करोतीत्याह।