Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1438

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡ न꣢ ऊ꣣र्जे꣢ व्य꣣꣬३꣱व्य꣡यं꣢ प꣣वि꣡त्रं꣢ धाव꣣ धा꣡र꣢या । दे꣣वा꣡सः꣢ शृ꣣ण꣢व꣣न्हि꣡ क꣢म् ॥१४३८॥

सः꣢ । नः꣣ । ऊर्जे꣢ । वि । अ꣣व्य꣡य꣢म् । प꣣वि꣡त्र꣢म् । धा꣣व । धा꣡र꣢꣯या । दे꣣वा꣡सः꣢ । शृ꣣ण꣡व꣢न् । हि । क꣣म् ॥१४३८॥

Mantra without Swara
स न ऊर्जे व्य३व्ययं पवित्रं धाव धारया । देवासः शृणवन्हि कम् ॥

सः । नः । ऊर्जे । वि । अव्ययम् । पवित्रम् । धाव । धारया । देवासः । शृणवन् । हि । कम् ॥१४३८॥

Samveda - Mantra Number : 1438
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे भक्तवत्सल देव ! (सः) प्रसिद्धः त्वम् (नः) अस्माकम् (ऊर्जे) बलाय प्राणशक्तये च। [ऊर्ज बलप्राणनयोः, चुरादिः।] अस्माकम् (पवित्रम्) परिपूतम् (अव्ययम्) अविनाशिनमन्तरात्मानम् (धारया) आनन्दधारया सह (वि धाव) प्रद्रव। (देवासः) विद्वांसः उपासकाः, (हि) निश्चयेन (कम्) सुखपूर्वकम् (शृणवन्) तव सन्देशान् शृण्वन्तु ॥४॥
Essence
जगदीश्वरस्य सख्ये वसन्तः स्तोतारो बलं प्राणशक्तिमानन्दं च प्राप्य धार्मिकं जीवनं यापयन्ति ॥४॥
Subject
अथ पुनस्तमेव विषयमाह।