Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1437

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
घृ꣣तं꣡ प꣢वस्व꣣ धा꣡र꣢या य꣣ज्ञे꣡षु꣢ देव꣣वी꣡त꣢मः । अ꣣स्म꣡भ्यं꣢ वृ꣣ष्टि꣡मा प꣢꣯व ॥१४३७॥

घृ꣣त꣢म् । प꣣वस्व । धा꣡र꣢꣯या । य꣣ज्ञे꣡षु꣢ । दे꣣ववी꣡त꣢मः । दे꣣व । वी꣡त꣢꣯मः । अ꣣स्म꣡भ्य꣢म् । वृ꣣ष्टि꣢म् । आ । प꣣व ॥१४३७॥

Mantra without Swara
घृतं पवस्व धारया यज्ञेषु देववीतमः । अस्मभ्यं वृष्टिमा पव ॥

घृतम् । पवस्व । धारया । यज्ञेषु । देववीतमः । देव । वीतमः । अस्मभ्यम् । वृष्टिम् । आ । पव ॥१४३७॥

Samveda - Mantra Number : 1437
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे जगत्पते ! (यज्ञेषु) उपासनारूपेषु अध्वरेषु (देववीतमः) अतिशयेन दिव्यगुणानां प्रापयिता त्वम् (धारया) प्रवाहसन्तत्या (घृतम्) स्नेहं दीप्तिं च। [घृ क्षरणदीप्त्योः, जुहोत्यादिः।] (पवस्व) अस्मभ्यं प्रेरय। (अस्मभ्यम्) उपासकेभ्यः (वृष्टिम्) आनन्दवर्षाम् (आ पव) आक्षारय ॥३॥
Essence
उपासितो जगदीश्वर उपासकाय स्वकीयं स्नेहमानन्दमजस्रं तेजश्च प्रयच्छति ॥३॥
Subject
अथ पुनः परमेश्वरं प्रार्थयते।