Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1435

1875 Mantra
Devata- पवमानः सोमः Rishi- कविर्भार्गवः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢स्व वृ꣣ष्टि꣢꣫मा सु नो꣣ऽपा꣢मू꣣र्मिं꣢ दि꣣व꣡स्परि꣢꣯ । अ꣣यक्ष्मा꣡ बृ꣢ह꣣ती꣡रिषः꣢꣯ ॥१४३५॥

प꣡व꣢꣯स्व । वृ꣣ष्टि꣢म् । आ । सु । नः꣣ । अपा꣢म् । ऊ꣣र्मि꣢म् । दि꣣वः꣢ । प꣡रि꣢꣯ । अ꣣यक्ष्माः꣢ । अ꣣ । यक्ष्माः꣢ । बृ꣣हतीः꣢ । इ꣡षः꣢꣯ ॥१४३५॥

Mantra without Swara
पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि । अयक्ष्मा बृहतीरिषः ॥

पवस्व । वृष्टिम् । आ । सु । नः । अपाम् । ऊर्मिम् । दिवः । परि । अयक्ष्माः । अ । यक्ष्माः । बृहतीः । इषः ॥१४३५॥

Samveda - Mantra Number : 1435
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 13; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सोम ! हे सर्वान्तर्यामिन् परमेश्वर ! त्वम् (दिवः परि) उच्चात् आत्मलोकात् (नः) अस्मभ्यम् (अपाम् ऊर्मिम्) दिव्यधाराणां तरङ्गरूपाम् (वृष्टिम्) वर्षाम् (सु आ पवस्व)सम्यक् समन्तात् प्रवाहय। किञ्च (अयक्ष्माः) नीरोगाः, वासनादिरहिताः इत्यर्थः (बृहतीः इषः) महतीः आकाङ्क्षाः (आ पवस्व) अस्मासु आस्रावय, जनयेत्यर्थः ॥१॥
Essence
यथा जगदीश्वरोऽन्तरिक्षाद् वृष्टिम् भूमावारोग्यकराण्यन्नानि चोत्पादयति तथैव सोऽस्मास्वानन्दवृष्टिमुत्कृष्टा महत्त्वाकाङ्क्षाश्च जनयेत् ॥१॥
Subject
तत्रादौ जगत्स्रष्टा परमेश्वरः प्रार्थ्यते।