Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1434

1875 Mantra
Devata- इन्द्रः Rishi- अगस्त्यो मैत्रावरुणः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
त्व꣢꣫ꣳ हि शूरः꣣ स꣡नि꣢ता चो꣣द꣢यो꣣ म꣡नु꣢षो꣣ र꣡थ꣢म् । स꣣हा꣢वा꣣न्द꣡स्यु꣢मव्र꣣त꣢꣫मोषः꣣ पा꣢त्रं꣣ न꣢ शो꣣चि꣡षा꣢ ॥१४३४॥

त्व꣢म् । हि । शू꣡रः꣢꣯ । स꣡नि꣢꣯ता । चो꣣द꣡यः꣢ । म꣡नु꣢꣯षः । र꣡थ꣢꣯म् । स꣣हा꣡वा꣢न् । द꣡स्यु꣢꣯म् । अ꣣व्रत꣢म् । अ꣢ । व्रत꣢म् । ओ꣡षः꣢꣯ । पा꣡त्र꣢꣯म् । न । शो꣣चि꣡षा꣢ ॥१४३४॥

Mantra without Swara
त्वꣳ हि शूरः सनिता चोदयो मनुषो रथम् । सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥

त्वम् । हि । शूरः । सनिता । चोदयः । मनुषः । रथम् । सहावान् । दस्युम् । अव्रतम् । अ । व्रतम् । ओषः । पात्रम् । न । शोचिषा ॥१४३४॥

Samveda - Mantra Number : 1434
(Kauthum) उत्तरार्चिकः: » Prapathak » 6; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 12; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र ! हे शत्रुविदारक जगदीश ! (त्वं हि) त्वं खलु (शूरः) वीरः, (सनिता) उत्साहप्रदश्च असि। (मनुषः) मनुष्यस्य (रथम्) प्रगतिरथम् (चोदयः) अग्रे प्रेरयसि। (सहावान्) बलवान् त्वम् (अव्रतम्) व्रतहीनं कर्महीनं च (दस्युम्) हिंसकं जनं वा (शोचिषा) प्रदीप्तयाऽग्निज्वालया (पात्रं न) मृद्घटादिकमिव (ओषः) प्रतपसि। [उष दाहे, भ्वादिः] ॥३॥२ अत्रोपमालङ्कारः ॥३॥
Essence
यः परमेश्वरः सज्जनान् पुरस्करोति दुष्टांश्च दण्डयति तस्माद् भीत्वा दुर्जनैर्दुष्टता परित्यक्तव्या सत्कर्मसु चोत्साहः प्रदर्शनीयः ॥३॥ अस्मिन् खण्डे उपास्योपासकविषयस्य ब्रह्मानन्दस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ परमात्मनः शूरत्वं वर्णयति।